________________
महर्द्धयो विशिष्ट विमान परिवारादियोगात् 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महाबल' त्ति विशि ष्टशारीरप्रमाणाः 'महायस' त्ति महायशसो - विशिष्टकीर्तयः 'महासोक्ख' त्ति महासौख्या: 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः ' इह कटकानि - कङ्कणानि त्रुटिका - बाहुरक्षकाः । 'अं गयकुंडल मट्टगंड कण्णपीढधारी' अङ्गदानि - बाह्राभरणविशेषान् कुण्डलानि च कर्णाभरणविशेषान् मृष्टगण्डानि चउल्लिखित कपोलानि कर्णपीठकानि - कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तहत्थाभरण'त्ति व्यक्त, 'विचित्त मालामउलियमउडा' विचित्रा माला:- कुसुमस्रजो येषां मौलौ च - मस्तके मुकटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि - पुष्पाणि बोन्दि:- शरीरं प्रलम्बो - झुम्बनकं वनमाला - आभरणविशेषः प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति ।
दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाए (घयणे ) णं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए | लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म | रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदति णमंसंति वंदित्ता णमंसित्ता चासणे णाइदूरे सुस्सुसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति ॥ ( सू० २२ ) ॥ दिवेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए (घयणे ) गं' ति संहननेन वज्रऋषभनाराचेनेत्यर्थः, 'संठाणेणं'ति समचतुरस्रलक्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org