SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ. ॥४१८॥ धनूंषि सार्द्धानि चत्वारि अङ्गुलानि, एकादशे षट् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरङ्गुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् परिपूर्णान्यङ्गुलानि अत्र चायं तात्पर्यार्थः - प्रथमप्रस्तटे यच्छरीरावगाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सार्द्धानि षट्पञ्चाशदङ्गुलानि प्रक्षिप्यन्ते ततो यथोक्तं प्रस्तटेषु शरीरावगाहनापरिमाणं भवति, उक्तं च - " श्यणाऍ पढमपयरे हत्थतियं देहउस्सओ भणिओ । छप्पन्नंगुल सहा पयरे २ हवइ बुढी ॥ १ ॥ [ रत्नायाः प्रथमे प्रतरे हस्तत्रयं देहोच्छ्रयो भणितः । षट्पञ्चाशदलानि सार्धानि प्रतरे प्रतरे भवति वृद्धिः ॥ १ ॥ ] 'तत्थ णं जा सा उत्तरवेउचिया' इत्यादि, जघन्यतोऽङ्गुलसङ्ख्येयभागं, प्रथमसमयेऽपि तस्या अङ्गुलसङ्ख्येयभागप्रमाणाया एव भावात्, न त्वसङ्ख्येयभागप्रमाणायाः, आह च सङ्ग्रहणिमूलटीकाकारो हरिभद्रसूरिः - " उत्तरवैक्रिया तु तथाविधप्रयत्नभावादाद्यसमयेऽप्यङ्गुलसङ्ख्येयभागमात्रैव, उत्कर्षतः पञ्चदश धनूंषि अर्धतृतीया हस्ताः " इदं च उत्तरवैक्रियशरीरावगाहनापरिमाणं त्रयोदशे प्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेषु प्रागुक्तभवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यं १ । शर्कराप्रभायां भवधारणीया उत्कर्षतः पञ्चदश धनूंषि अर्द्धतृतीया हस्ताः, इदं चोत्कर्षतो भवधारणीयावगाहनापरिमाणमेकादशे प्रस्तटेऽवसातव्यं, शेषेषु तु प्रस्तटेष्विदं - शर्करायाः प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि, द्वितीये प्रस्तटे अष्टौ धनूंषि द्वौ हस्तौ नव चाङ्गुलानि तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे दश धनूंषि पञ्चदशाङ्गुलानि पञ्चमे दश Jain Education International For Personal & Private Use Only २१ शरीर पदं ॥४१८ ॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy