________________
మహిమపదించి
धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरङ्गुलानि, सप्तमे द्वादश धनूंषि द्वौ | हस्ती, अष्टमे त्रयोदश धनंषि एको हस्तः त्रीणि अङ्गुलानि, नवमे चतुर्दश धनूंषि षट् चाङ्गलानि, दशमे चतुर्दशी धनुषि त्रयो हस्ता नव चाङ्गलानि, एकादशे सूत्रोक्तमेव परिमाणं, अत्रापीदं तात्पर्य-प्रथमे प्रस्तटे.यत्परिमाणमुक्तं | तस्योपरि प्रस्तटक्रमेण त्रयो हस्तास्त्रीणि चाङ्गुलानि प्रक्षेप्तव्यानि, ततो यथोक्तं प्रस्तटेषु परीमाणं भवति, "सो चेव य बीयाए पढमे पयामि होइ उस्सेहो। हत्थतिय तिन्नि अंगुल पयरे पयरे य वुड्डीए ॥१॥ एक्कारसमे। पयरे पण्णरस धणणि दोणि रयणीओ। बारस य अंगुलाई देहपमाणं तु विन्नेयं ॥२॥" गाथाद्वयस्थापीयमक्षरगमनिका-य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्कर्षत उत्सेधो भणितः-सप्त धनूंषि त्रयो हस्ताः षट्र चाङ्गुलानि इति, स एव द्वितीयस्यां-शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति ज्ञातव्यः, ततः प्रतरे प्रतरे वृद्धिरवसेया त्रयो हस्तास्त्रीणि चाङ्गुलानि, तथा च सत्येकादशे प्रस्तटे उत्कर्षतो भवधारणीयशरीरपरिमाणमायाति पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि इति, उत्तरवैक्रियोत्कर्षपरिमाणमाह-एकत्रिंशद्धनूंषि एको हस्तः, इदं च एकादशे प्रस्तटे वेदितव्यं, शेषेषु तु प्रस्तटेषु खखभवधारणीयापेक्षया द्विगुणमवसेयं २ । तथा तृतीयस्यां वालुकाप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया एकत्रिंशद्धनूंषि एको हस्तः, एतच नवमं प्रस्तटमधिकृत्योक्तमवसेयं, शेषेषु प्रस्तटेष्वेवं-तत्र प्रथमप्रस्तटे भवधारणीया पञ्चदश धनूंषि द्वौ हस्तौ द्वादशाङ्गुलानि, द्वितीये प्रस्तटे सप्तदश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org