SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 'उचियसरीरस्स ण' मित्यादि, जघन्यतोऽङ्गुलासङ्ख्येयभागं नैरयिकादीनां भवधारणीयस्यापर्याप्तावस्थायां वातकायस्य वा, उत्कर्षतः सातिरेकं योजनशतसहस्रं देवानामुत्तरवै क्रियस्य मनुष्याणां वा, 'एगिंदियवे उच्चियसरीरस्स ण' मित्यादि, अत्र एकेन्द्रियो वातकायोऽन्यस्य वैक्रियलब्ध्यसम्भवात् तस्य जघन्यत उत्कर्षतो वाऽवगाहनामान - मङ्गुलासङ्ख्येयभागप्रमाणं, एतावत्प्रमाणविकुर्वणायामेव तस्य शक्तिसम्भवात्, सामान्यनैरयिकसूत्रे 'भवधारणीया' भवो धार्यते यया सा भवधारणीया 'कुद्वहुल' मिति वचनात् करणे अनीयप्रत्ययः, उत्कर्षतः पञ्च धनुःशतानि, उत्त| खैक्रिया धनुःसहस्रं सप्तमनरकपृथिव्यपेक्षया, अन्यत्रैतावत्या भवधारणीयाया उत्तरवैक्रियाया वा शरीरावगाहनाया अप्राप्यमाणत्वात्, अधुना प्रतिपृथिव्यवगाहनामानमाह - 'रयणप्पमेत्यादि, अङ्गुला सङ्ख्येय भागप्रमाणता प्रथमोत्पत्तिकाले वेदितव्या, उत्कर्षतः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलानि पर्याप्तावस्थायां, इदं चोत्कर्षतः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं शेषेषु त्वर्वाक्तनेषु प्रस्तटेषु स्तोकं स्तोकतरं तच्चैवम् - रत्नप्रभायाः प्रथमप्रस्तटे त्रयो हस्ता उत्कर्षतः शरीरप्रमाणं, द्वितीये प्रस्तटे धनुरेकमेको हस्तः सार्द्धनि चाष्टावङ्गुलानि, तृतीये प्रस्तटे धनुरेकं त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सार्द्धान्यष्टादशाङ्गुलानि सप्तमे चत्वारि धनूंषि एको हस्तः त्रीणि चाङ्गुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ताः सार्द्धान्येकादशाङ्गुलानि, नवमे पञ्च धनूंषि एको हस्तो विंशतिरङ्गुलानि, दशमे पट् Jain Education International For Personal & Private Use Only wwww.jainielibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy