________________
eceaeeeeeeeeeeeeera
8 त्रीणि गव्यूतानि, चतुरिन्द्रियाणां चत्वारि गव्यूतानि, अपर्याप्तसूत्रे तु जघन्यत उत्कर्षतश्चाङ्गुलासङ्ख्येयभागः, तथा ४ सामान्यतस्तिर्यक्पञ्चेन्द्रियाणां जलचराणां सामान्यतः स्थलचराणां चतुष्पदानामुर परिसाणां भुजपरिसर्पाणां खचरपञ्चेन्द्रियतिरश्चां च प्रत्येकं नव २ सूत्राणि, तद्यथा-त्रीणि औधिकानि त्रीणि संमूर्छिमविषयाणि त्रीणि गर्भव्युत्क्रान्तिकविषयाणि, तत्रापर्यासेषु स्थानेषु सर्वेष्वपि जघन्यत उत्कर्षतो वा अङ्गुलासङ्ख्येयभागः, शेषेषु तु स्थानेषु ।। जघन्यतोऽङ्गुलासङ्ख्येयभाग उत्कर्षतः सामान्यतस्तिर्यक्पञ्चेन्द्रियेषु जलचरेषु चोत्कर्षतो योजनसहस्रं, सामान्यतः | स्थलचरेषु चतुष्पदस्थलचरेषु चौषिकेषु गर्भव्युत्क्रान्तिकेषु च षटू गव्यूतानि, सम्मूछिमेषु गन्यूतपृथक्त्वं, उरम्परिसर्पष्वौषिकेषु गर्भव्युत्क्रान्तिकेषु च योजनसहस्रं सम्मूछिमेषु योजनपृथक्त्वं, भुजपरिसर्पष्वौधिकेषु गर्भव्युत्क्रान्तेषु च गव्यूतपृथक्त्वं, सम्मूछिमेषु धनुःपृथक्त्वं, खचरेष्वौधिकेषु गर्भव्युत्क्रान्तिकेषु सम्मूछिमेषु च सर्वेषु स्थानेषु धनुःपृथक्त्वं, अत्रेमे सङ्ग्रहगाथे-"जोअणसहस्स"मित्यादि, गर्भव्युत्क्रान्तिकानां जलचराणामुत्कर्षतः शरीरावगाहनाया मानं योजनसहस्रं, चतुष्पदस्थलचराणां षड् गव्यूतानि, उरःपरिसप्पस्थलचराणां योजनसहस्रं, भुजपरिसर्पस्थलचराणां गव्यूतपृथक्त्वं, पक्षिणां धनुःपृथक्त्वं, तथा सम्मूछिमानां जलचराणामुत्कर्षतः शरीरावगाहनायाः प्रमाणं योजनसहस्रं, चतुष्पदस्थलचराणां गव्यूतपृथक्त्वं, उरःपरिसप्पस्थलचराणां योजनपृथक्त्वं, भुजपरिसर्पस्थलचराणां पक्षिणां च धनुःपृथक्त्वमिति । उक्तं तिर्यपञ्चेन्द्रियौदारिकशरीरावगाहनामानमिदानीं मनुष्यप
dain Education International
For Personal & Private Use Only
www.janelibrary.org