________________
प्रज्ञापनाया: मल
य० वृत्तौ .
॥४०६ ॥
विद्या मन्त्राश्च भावे ॥ १ ॥ ] सोऽस्ति येषां तेन वा चरन्ति ये ते अभियोगिका आभियोगिका वा, ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः, उक्तं च- " कोउय भूईकम्मे पसिणापसिणे निमित्तमाजीवी । इद्धिरससायगरुओ अभिओगं भावणं कुणइ ॥ १ ॥” कौतुकं - सौभाग्याद्यर्थं त्रपनं भूतिकर्म - ज्वरितादिभूतिदानं प्रश्नाप्रश्नः - स्वप्नविद्यादि, 'सलिंगीण' मिति रजोहरणादिसाधुलिङ्गवतां, किंविधानामित्याह - 'दंसणवावण्णगाणं'ति दर्शनं - सम्यक्त्वं व्यापन्नं- भ्रष्टं येषां ते तथा तेषां निहृवानामित्यर्थः, 'देवलोगेसु उववजमाणाणं ति अनेन देवत्वादन्यत्रापि यथाऽध्यवसायमुत्पादो भवतीति प्रतिपादितं, 'विराहियसंजमाणं जहणणेणं भवणवासीसु उक्कोसेणं सोहम्मे' इति, अत्र कश्चिदाह - विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते ?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया अपि ईशानकल्पे उत्पादश्रवणात्, नैष दोषः, तस्या हि संयमविराधना उत्तरगुणविषया बकुशत्व मात्रकारिणी न मूलगुणविराधना, सौधर्मोत्पादश्च प्रभूततरसंयमविराधनायां भवति, यदि पुनविराधनामात्रमपि सौधर्मोत्पत्तिकारणं स्यात् तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिरुपपद्यते ?, कथञ्चिद्विराधकत्वात्तेषामिति । असंज्ञी देवेषूत्पद्यते इत्युक्तं, स चायुषा इति तदायुर्निरूपयति
Jain Education International
कतिविहे णं भंते ! असण्णियाउए पण्णत्ते ?, गो० ! चउविधे असण्णिआउए पं० तं० – नेरइयअसण्णियाउए जाव देवअसण्णियाउए । असण्णी णं भंते ! जीवे किं नेरइयाउयं पकरेति जाव देवाउयं पकरेति १, गो० ! नेरइयाउयं पकरेति
For Personal & Private Use Only
२० अन्त
क्रियापदे
उपपाती
sसंयतादेः
सू. २६५
॥४०६ ॥
www.jainelibrary.org