________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥४०४ ॥
भवणवासी उ० बंभलोए कष्ये, किंच्चिसियाणं जह० सोहम्मे कप्पे उ० लंतए कप्पे, तिरिच्छियाणं जह० भवनवासीसु उ० सहस्सारे कप्पे, आजीवियाणं ज० भवणवासीसु उ० अच्चुए कप्पे, एवं आभिओगाणवि, सलिंगीणं दंसणवावण्णगाणं ज० भवणवासीसु उ० उवरिमगेवेजएसु (सूत्रं २६५ )
'अह भंते !' इत्यादि, अथेति परप्रश्ने 'असंजयभवियदवदेवाण' मिति असंयताः - चरणपरिणामशून्या भव्या| देवत्वयोग्याः अत एव द्रव्यदेवाः, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चासंयतभव्यद्रव्यदेवास्तेषां तत्रैके प्राहु:एते किलासंयतसम्यग्दृष्टो देवेषूत्पादात् उक्तं च किलैवमागमे - " अणुवयमहवएहि य बालतवोकामनिज्जरा ए य। देवाउयं निबंधइ सम्म हिट्ठी य जो जीवो ॥ १ ॥” [ अणुव्रत महाव्रतैर्वा लतपोऽकामनिर्जरया च । देवायुष्कं निवनाति सम्यग्दृष्टिश्च यो जीवः ॥ १॥] तदयुक्तम्, यतोऽमीषामुत्कृष्टत उपरितनयैवेयकेषूपपातो वक्ष्यते, सम्यग्दष्टीनां तु देशविरतानामपि न तत्रोपपातोऽस्ति, देशविरतश्रावकाणामप्यच्युतादूर्द्धमगमनात्, नाप्येते निह्नवास्तेषामिहैव भेदेनाभिधानात् तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणोऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः, तेऽपीहाखिलकेवलक्रियाप्रभावत उपरितनयैवेयकेषूत्पद्यन्त एवेति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, 'अविराहियसंजमाण' मिति प्रत्रज्याकालादारभ्याभचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थान कवशाद्वा स्वल्पमायादिदोषसम्भवेनापि अनाचरितसर्वथाच
Jain Education International
For Personal & Private Use Only
२० अन्त
क्रियापदे
उपपातो
Sसंयतादेः
सू. २६५
॥४०४ ॥
www.jainelibrary.org