SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ णायोग्यत्वेन व्यवस्थापितानीति भावार्थः 'कृतानि निकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः 'प्रस्थापितानि' मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः 'निविष्टानि' तीव्रानुभावजनकतया स्थितानि 'अभिनिविष्टानि' विशिष्टविशिष्टतराध्यवसायभावतोऽतिती-19 ब्रानुभावजनकतया व्यवस्थितानि 'अभिसमन्वागतानि' उदयाभिमुखीभूतानि 'उदीर्णानि' विपाकोदयमागतानि 'नोपशान्तानि' न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कण्ठ्यं, एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनरयिकस्ततोऽनन्तरमुद्धत्तः तीर्थकरत्वं न लभते, अन्तक्रियां पुनः कुर्यात्, धूमप्रभापृथिवीनैरयिकोऽन्तक्रियामपि न करोति, सर्वविरतिं पुनर्लभते, तमःप्रभापृथिवीनरयिकः सर्वविरतिमपि न लभते, विरत्यविरतिं-देशविरतिं पुनर्लभते, अधःसप्तमपृथिवीनरयिकः पुन|स्तामपि देशविरतिं न लभते, यदि परं सम्यक्त्वमात्रं लभते । असुरादयो यावद्वनस्पतिकाया अनन्तरमुत्ताः तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युट्टत्तोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसपिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः, तदत्र तत्त्वं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुत्ताः अन्तक्रि| यामपि न कुर्वन्ति, मनुष्येषु तेषामानन्तर्येणोत्पादाभावाद्, अपि च ते तिर्यसूत्पन्नाः केवलिप्रज्ञप्तं धर्म श्रवणतया लभेरन् , न तु बोधत इत्युक्तं प्राक, वनस्पतिकायिका अनन्तरमुवृत्तास्तीर्थकरत्वं न लभन्ते, अंतक्रियां पुनः कुर्युः, dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy