SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ शीलतादयोऽस्यापि विद्यन्ते ततः किमस्यावधिज्ञानमुत्पद्यते किंवा न ? इति प्रश्नयति, 'जे णं भंते !' इत्यादि, यस्य शीलवतादिविषयविप्रकृष्टपरिणामभावात् अवधिज्ञानावरणकर्मणः क्षयोपशम उपजायते स उत्पादयेत् , शेषस्तु नेत्यर्थः ॥ अवधिज्ञानानन्तरं च मनःपर्यवज्ञानं द्रष्टव्यं, मनःपर्यवज्ञानं चानगारस्य भवति "तं संजयस्स सवप्पमायरहियस्स विविहरिद्धिमतो" [तत् संयतस्य सर्वप्रमादरहितस्य विविधद्धिमतः] इति वचनात् , ततोऽनगारतामेव प्रश्नयति-'जे णं भंते !' इत्यादि, मुण्डो द्विधा-द्रव्यतो भावतश्च, द्रव्यतः केशाद्यपनयनेन भावतः सर्वसङ्गपरित्यागेन, तत्रेह द्रव्यमुण्डत्वासंभवाद् भावमुण्डः परिगृह्यते, मुण्डो भूत्वा अगारात्-खाश्रयरूपाद् विनिगत्य न विद्यते अगारं-गृहं द्रव्यतो भावतश्च यस्यासी अनगारः तद्भावोऽनगारता तां प्रव्रजितुं शक्नुयात् ?, भगवानाह-नायमर्थः समर्थः, तिरश्चां भवस्वभावतः तथारूपपरिणामासंभवात् , अनगारताया अभावे मनःपर्यवज्ञानस्य चाभावः सिद्ध एव । यथा च तिर्यपञ्चेन्द्रियविषयं सूत्रकदम्बकमुक्तं तथा मनुष्यविषयमपि वक्तव्यं, नवरं मनुष्येषु सर्वभावसंभवात् मनःपर्यवज्ञानकेवलज्ञानसूत्रे अधिके प्रतिपादयति-'जे णं भंते ! संचाएजा मुंडे भवित्ता इत्यादि सुगम, नवरं 'सिज्झेजा' इत्यादि, सिध्यत-समस्ताणिमैश्वर्यादिसिद्धिभाक् भवेत् बुध्येत-लोकालोकखरूपमशेषमवगच्छेत् मुच्येत-भवोपग्राहिकर्मभिरपि, किमुक्तं भवति ?-सर्वदुःखानामन्तं कुर्यात् । वानमन्तरज्योतिष्कवैमानिकेषु प्रतिषेधो वक्तव्यः, नैरयिकस्य भवखाभाव्यान्नैरयिकदेवभवयोग्यायुबन्धासंभवात् । Seeeeeeeeeeeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only Howinainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy