SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्तौ . ॥३९९॥ शब्दरूपस्य भावः - प्रवृत्तिनिमित्तं' इत्यपि व्याख्यानमस्ति तया श्रवणतया १, भगवानाह - ' अत्थेगतिए' इत्यादि, | पुनरपि प्रश्नयति - यस्तु भदन्त ! केवलिप्रज्ञप्तं धर्मं लभेत श्रवणतया 'से णं केवलं बोहिं बुज्झेजा' इति, इह बोधिः - धर्मावाप्तिरुच्यते, तस्या निमित्तभूतो यः शब्दसंदर्भः सोऽपि कारणे कार्योपचाराद् बोधिः, स च केवलिना साक्षात्परम्परया वोपदिष्ट इति कैवलिकः, स केवलिप्रज्ञप्तस्य धर्मस्य श्रोता णमिति पूर्ववत् केवलिकीं बोधिंयथोक्तरूपां बुध्येत —तदर्थं जानीयादित्यर्थः १, भगवानाह - ' अत्थेगतिए' इत्यादि । पुनरपि प्रश्नयति — यो भदन्त ! केवलिकीं बोधिमर्थतोऽवगच्छति सोऽर्थतस्तां श्रद्दधीत - श्रद्धाविषयां कुर्यात्, तथा प्रत्ययेत् — प्रतीतिविषयां कुर्या - तू रोचयेत् — चिकीर्षामि इत्येवमध्यवस्येत् ?, भगवानाह - 'अत्थेगइए' इत्यादि, पुनः प्रश्नयति - यस्तु भदन्त ! श्रधीत प्रत्ययेत् रोचयेत् स आभिनिबोधिकश्रुतज्ञाने उत्पादयेत् ?, भगवानाह - 'हन्ते' त्यादि, [अनुमतौ ] हंता गौतम ! उत्पादयेत्, केवलिप्रज्ञप्तधर्म श्रवणश्रद्धानादवश्यं तयोर्भावात् भूयः प्रश्चयति - यो भदन्त ! आभिनिबोधिकश्रुतज्ञाने उत्पादयति स 'संचाएज्जा' शक्नुयात् 'शील' ब्रह्मचर्य ' त्रतं' चित्रं द्रव्यादिविषयनियमरूपं गुणं - उत्तर|गुणं भावनादिरूपं विरमणं - विरतिरतीतस्थूलप्राणातिपातादेः प्रत्याख्यानं - अनागतस्य स्थूलप्राणातिपातादेरेव, पोषं - धर्मपोषं दधाति — करोतीति पोषधं - अष्टम्यादिपर्व तस्मिन्नुपवासः पोषधोपवासः तं प्रतिपत्तुं शक्नुयात् ? । | भगवानाह - ' अत्थेगइए' इत्यादि, इह तिरश्चां मनुष्याणां च भवप्रत्ययतोऽवधिर्नोपजायते किन्तु गुणतः, गुणाश्च Jain Education International For Personal & Private Use Only २० अन्त क्रियापदे उद्वृत्ते धर्मश्रवणादि सू. २५८ ॥३९९॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy