________________
कियन्त एकसमयेनान्तक्रियां कुर्वन्तीति चिन्त्यते, तत 'उच्चट्टा' इति उदृत्ताः सन्तः कस्यां योनावुत्पद्यन्ते इति वक्तव्यं, तथा यत उदृत्तास्तीर्थकराश्चक्रवर्तिनो बलदेवा वासुदेवा माण्डलिकाश्चक्रवर्तिनो रत्नानि च-सेनापतिप्रमुखाणि भवन्ति ततस्तानि क्रमेण वक्तव्यानि इति द्वारगाथासंक्षेपार्थः। विस्तरार्थ त सूत्रकृदेव वक्ष्यति, तत्र प्रथमतोऽन्तक्रियामभिधित्सुराह-'जीवे णं भंते !' इत्यादि, जीवो 'ण'मिति वाक्यालङ्कतौ भदन्त ! 'अन्तक्रिया मिति अन्तः-अवसानं, तच्च प्रस्तावादिह कर्मणामवसातव्यं, अन्यत्रागमेऽन्तक्रियाशब्द(वाच्यतया त)स्य रूढत्वात् , तस्य क्रिया-करणमन्तक्रिया-कर्मान्तकरणं मोक्ष इति भावार्थः, “कृत्स्नकर्मक्षयान्मोक्षः" इति वचनात् , तां कुर्याद् ?, भगवानाह-गौतम ! अस्त्येकको यः कुर्यात् , अस्त्येकको यो न कुर्यात् , इयमत्र भावना-यस्तथाविधभव्यत्वपरिपाकवशतो मनुष्यत्वादिकामविकलां सामग्रीमवाप्य तत्सामर्थ्यसमुद्भूतातिप्रबलवीर्योलासवशतःक्षपकश्रेणिसमारोहणेन केवलज्ञानमासाद्याघातीन्यपि कर्माणि क्षपयेत् स कुर्यात् , अन्यस्तु न कुर्यात् , विपर्ययादिति । एवं नैरयिकादिचतुर्विशतिदण्डकक्रमेण तावद् भावनीया यावद् वैमानिकाः, सूत्रपाठस्त्वेवम्-'नेरइएणं भंते ! अंतकिरियं करेजा?, गोयमा ! अत्थेगइए करेजा अत्थेगइए नो करेजा' इत्यादि । इदानीं नैरयिकेषु मध्ये वर्तमानोऽन्तक्रियां करोति किं वा न करोति ? इति पिपृच्छिषुरिदमाह-'नेरइए णं भंते' इत्यादि, भगवानाह-गौतम ! नायमर्थः समर्थः, नायमों युक्त्युपपन्न इत्यर्थः । कथमिति चेत् ?, उच्यते, इह कृत्स्नकर्मक्षयः प्रकर्षप्राप्तात्सम्यग्दर्शनज्ञानचारित्रसमु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org