________________
प्रज्ञापना- याः मलय० वृत्ती.
॥३९७॥
दायाद् भवति, न च नैरयिकावस्थायां चारित्रपरिणामः, तथा भवखाभाब्यादिति । एवमसुरकुमारादिषु वैमानिक-18/२०अन्तपर्यवसानेषु प्रतिषेधो वक्तव्यः । मनुष्येषु तु मध्ये समागतः सन् कश्चिदन्तक्रियां कुर्यात् , यस्य परिपूर्णा चारि-8 क्रियापदम् त्रादिसामग्री स्यात्, कश्चिन्न कुर्यात्, यस्तद्विकल इति । एवमसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैर|यिकादिचतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तत एवमेते चतुर्विशतिदण्डकाश्चतुर्विशतयो भवन्ति ॥ अथैते नैरयिकादयः खखनैरयिकादिभवेभ्योऽनन्तरं मनुष्यभवे समागताः सन्तोऽन्तक्रियां कुर्वन्ति किंवा तिर्यगादिभवव्यवधानेन परंपरागता इति निरूपयितुकाम आह-'नेरइया णं भंते !' इत्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि, तत्र रत्नशर्करावालुकापङ्कप्रभाभ्योऽनन्तरागता अपि परम्परागता अपि, धूमप्रभापृथिव्यादिभ्यः पुनः परम्परागता एव, तथाखाभाव्यात्, एनमेव विशेष प्रतिपिपादयिषुः सूत्रसप्तकमाह-‘एवं रयणप्पभापुढवीनेरइयावि' इत्यादि, सुगमं । असुरकुमारादयः स्तनितकुमारपर्यवसानाः पृथिव्यब्बनस्पतयश्चानन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अप्यन्तक्रियां कुर्वन्ति, उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाविरोधात् , तथा केवलचक्षुषोपलब्धेः। तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव, न त्वन- ॥३९७॥ न्तरागताः, तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाप्राप्तः, द्वीन्द्रियादीनां तु तथाभवस्खाभाब्यादिति । शेषास्तु तिर्यक्रपञ्चेन्द्रियादयो वैमानिकपर्यवसाना अनन्तरागता अपि परम्परागता अपि । अथ नैरयिकादिभवेभ्योऽनन्तर
2292020208828800202
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org