________________
'जीवा णं भंते ! किं सम्मदिही' इत्यादि सुगमं आपदपरिसमासेः, नवरं सासादनसम्यक्त्वयुक्तोऽपि सूत्राभि-1 प्रायेण पृथिव्यादिषु नोत्पद्यते, "उभयाभावो पुढवाइएसु" [ उभयाभावः पृथ्व्यादिषु] इति वचनात्, द्वीन्द्रियादिषु सासादनसम्यक्त्वयुक्त उपपद्यते, ततः पृथिव्यादयः सम्यग्दृष्टयः प्रतिषिद्धाः, द्वीन्द्रियादयोऽभिहिताः, सम्यगमिथ्याष्टिपरिणामः पुनः संज्ञिपञ्चेन्द्रियाणां भवति, न शेषाणां, तथाखाभाव्यात्, अत उभयेऽपि सम्यगमिथ्यादृष्टयः प्रतिषिद्धाः ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायामेकोनविंशतितमं पदम् समाप्तम् ॥
अथ विंशतितममन्तक्रियापदं प्रारभ्यते ॥
Deeeeeeeeeeeeeeeeeeeecca
व्याख्यातमेकोनविंशतितमं पदं, अधुना विंशतितमं आरभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरपदे सम्यक्त्वपरिणाम उक्तः, अत्र तु परिणामसाम्याद गतिपरिणामविशेषोऽन्तक्रियाऽभिधीयते, तत्रेयमादी अधिकारद्वारगाथा
नेरइय अंतकिरिया अणन्तरं एगसमय उबट्टा । तित्थगरचक्किबलदेववासुदेवमंडलियरयणा [य] ॥१॥ दारगाहा । जीवे
-OChe
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org