SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 1 ऊर्द्धमपर्याप्तत्वप्रसक्तेः, उत्कर्षतः सातिरेक सागरोपमशतपृथक्त्वं, एतावन्तं कालं पर्याप्सलब्ध्यवस्थानसम्भवात् , 18 अपर्यासो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, तत ऊर्द्धमवश्यं पर्याप्सलब्ध्युत्पत्तेः, नोपर्याप्सोनोअपर्याप्तश्च सिद्धः, स च साद्यपर्यवसितः, सिद्धत्वस्याप्रच्युतेः। सूक्ष्मद्वारे सूक्ष्मसूत्रे उत्कर्षतः पृथिवीकाल इति, यावान् पृथिवीकायिकका-1 यस्थितिकालस्तावान् वक्तव्यः। बादरसूत्रं सुगम, अनयोश्च भावना प्रागेव कृता, नोसुक्ष्मोनोवादरश्च सिद्धस्ततः धपर्यवसितः। संज्ञिद्वारे संज्ञिसूत्रे जघन्यतोऽन्तमुहूर्त्तमिति, यदा कश्चिजन्तुरसंज्ञिभ्य उदृत्त्य संज्ञिषु समुत्पद्यते । तत्र चान्तर्मुहूर्त जीवित्वा भूयोऽपि असंज्ञिपूत्पद्यते तदा लभ्यते, उत्कृष्टं सुगमं । असंज्ञी जघन्यतोऽन्तर्मुहूर्त, स । चैवं-कश्चित् संज्ञिभ्य उदृत्त्यासंज्ञिषूत्पद्यते, तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि संज्ञिषु मध्ये समागच्छति, उत्कतो वनस्पतिकालो, वनस्पतिकायस्याप्यसंज्ञिग्रहणेन ग्रहणात् नोसंज्ञिनोअसंज्ञी च सिद्धः, स च साद्यपर्यवसितः। भवसिद्धिकद्वारे 'भवसिद्धिए णमित्यादि, भवे सिद्धिर्यस्यासौ भवसिद्धिको भव्य इत्यर्थः, स चानादिसपर्यवसितः, अन्यथा भव्यत्वायोगात् , अभवसिद्धिकोऽभव्यः, स चानाद्यपर्यवसितः, अन्यथाऽभव्यत्वायोगात्, नोभव्योनोअभव्यश्च सिद्धः, ततः साद्यपर्यवसितः। अस्तिकायाः पञ्चापि सर्वकालभाविनः, अद्धासमयोऽपि प्रवाहापेक्षया, तत उक्तं 'एवं जाव अद्धासमए,' चरमो भवो भविष्यति यस्य सोऽभेदाचरमो-भव्यस्त द्विपरीतोऽचरमः स चाभव्यस्तस्य चरमभवाभावात् , सिद्धश्च, तस्यापि चरमत्वायोगात् , तत्र चरमोऽनादिसपर्यवसितोऽन्यथा चरमत्वायोगात्, ekeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy