SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाःमलयवृत्ती. ॥३९॥ द्वीन्द्रियादिभाषक एकेन्द्रियादिष्वभाषकेषुत्पद्य तत्र चान्तर्मुहूर्त जीवित्वा पुनरपि यदा द्वीन्द्रियादिरेवोत्पद्यते तदा || |१८ कायजघन्यतोऽन्तर्मुहूर्तमभाषकः, उत्कर्षतो वनस्पतिकालः, सच प्रागेवोक्त इति नोपदयते । गतं भाषकद्वारं, इदानीं स्थितिपदं परीतद्वारं, परीतो द्विविधः-कायपरीतः संसारपरीतश्च, तत्र यः प्रत्येकशरीरी स कायपरीतो, यस्तु सम्यक्त्वादिना कृतपरिमितसंसारः स संसारपरीतः, कायपरीतो जघन्यतोऽन्तर्मुहूर्त, स च यदा कश्चिनिगोदादुद्धृत्य प्रत्येकशरीरिषु समुत्पद्य च तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि निगोदेषूत्पद्यते तदा लभ्यते, उत्कर्षतोऽसङ्ख्येयं कालं, स चासङ्ख्येयः कालः पृथिवीकालो, यावान् पृथिवीकायिककायस्थितिकालस्तावान् वेदितव्य इत्यर्थः, तमेव कालतो निरूपयति-असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, संसारपरीतो जघन्यतोऽन्तर्मुहर्त तत ऊर्द्धमन्तकृत्केवलित्वयोगेन मुक्तिभावात् , उत्कर्षतोऽनन्तं कालं, तमेव निरूपयति-'अणंताओं' इत्यादि प्राग्वत्, तत ऊर्द्धमवश्यं मुक्तिगमनात्, कायापरीतोऽनन्तकायिकः, संसारापरीतः सम्यक्त्वादिना अकृतपरिमितसंसारः, कायापरीतो जघन्येनान्तर्मुहूर्त, 181 स च यदा कश्चित्प्रत्येकशरीरिभ्य उद्धृत्य निगोदेषु समुत्पद्यते तत्र चान्तमहल स्थित्वा भूयोऽपि प्रत्येकशरीरिषूत्पद्यते तदाऽवसातव्यः, उत्कर्षतो वनस्पतिकालो वाच्यः, स च प्रागेवोपदर्शितः, तत ऊर्द्व नियमात्तत उदृत्तेः, ॥३९४॥ संसारापरीतो द्विधा-अनाद्यपर्यवसितो यो न कदाचनापि संसारव्यवच्छेदं करिष्यति, यस्तु करिष्यति सोऽनादिसपर्यवसितः, नोपरीतोनोअपरीतश्च सिद्धः, स च साद्यपर्यवसित एव । पर्याप्सद्वारे पर्याप्तो जघन्येनान्तर्मुहूर्त, तत। eeeeeeeeeeeeee Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy