________________
प्रज्ञापनाया मलयवृत्ती.
३६ समुद्घातपदं योगनिरो
धः सू. ३४९
॥६१०॥
20201290
रीराः-औदारिकादिशरीरविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमये एव सर्वात्मना त्यक्तत्वात् , जीवधना-निचितीभूतजीवप्रदेशरूपाः, सूक्ष्मक्रियाऽप्रतिपातिध्यानप्रतिपत्तिकाले एव तत्सामर्थ्यतो वदनोदरादिविवराणामापूरितत्वात् , दर्शनज्ञानोपयुक्ता जीवस्वाभाव्यात् , निष्ठितार्थाः कृतकृत्यत्वात् , नीरजसो बध्यमानकर्माभावात् , निरेजनाः कम्पक्रियानिमित्तविरहात्, वितिमिराः कर्मतिमिरवासनापगमात्, विशुद्धास्त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतत्वात् , ते चेत्थंभूतास्तत्र गतास्तिष्ठन्ति शाश्वतं यथा भवत्येवं 'अनागताद्धं' अनागता-भाविनी अद्धा समस्ता यत्र सोऽनागताद्धः तं कालं यावत् , अत्रैव मन्दमतिविबोधायाक्षेपपरिहारावाह-'से केणटेणं भंते !' इत्यादि सुगम, नवरं 'कम्मबीएसुत्ति कर्मरूपाणि बीजानि-जन्मनः कारणानि कर्मबीजानि तेषु दग्धेषुनिर्मूलकाकषितेषु पुनरपि-भूयो जन्मन उत्पत्तिर्न भवति, कारणमन्तरेण कार्यासम्भवात् , अथ तान्येव कर्माणि भूयः कस्मान्न भवन्ति ?, उच्यते, रागादीनामभावात् , रागादयो ह्यायुःप्रभृतीनां कर्मणां कारणं, न च ते तेषां सन्ति, प्रागेव क्षीणमोहावस्थायां क्षीणत्वात्, न च तेऽपि क्षीणा अपि भूयः प्रादुष्ष्यन्ति, सहकारिकारणाभावात्, रागादीनां झुत्पत्तौ परिणामिकारणमात्मा सहकारिकारणं रागादिवेदनीयं कर्म, न चोभयकारणजन्यं कार्यमेकतरस्थाप्यभावे भवति, अन्यथा तस्याकारणत्वप्रसङ्गात्, न च सिद्धानां रागादिवेदनीयं कर्मास्ति, तस्य प्रागेव शुक्लध्यानामिना भस्मीकृतत्वात्, न च वाच्यमत्रापि स एव प्रसङ्गः, यथा तदपि रागादिवेदनीयं कर्म भूयः कस्मान्न
॥६१०॥
00002020
Jain Education
nal
For Personal & Private Use Only
diainelibrary.org