SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ भवतीति ?, तत्कारणस्य सङ्क्लेशस्याभावात् , रागादिवेदनीयानां हि कर्मणामुत्पत्तौ रागादिपरिणतिरूपः सङ्क्लेशः, 'जं वेयइ से बंधई' इति, न च रागादिवेदनीयकर्मविनिर्मुक्तस्य तथाभूतं सक्लेशोत्थानमस्ति, ततस्तदभावाद्रागादिवेदनीयकाभावः, तदभावाच भूयो रागादीनामभावः, तथा च रागादीनामेव पुनरुत्पत्तिचिन्तायां धर्मसङ्ग्रहण्यामुक्तम्-"खीणा य ते न होंती पुणरवि सहकारिकारणाभावा। नहि होइ संकिलेसो तेहिं विउत्तस्स जीवस्स ॥१॥ तयभावा न य बंधो तप्पाउग्गस्स होइ कम्मस्स । तदभावे तदभावो सबद्धं चेव विन्नेओ ॥२॥" इति, ततो रागादीनामभावादायुःप्रभृतीनां कर्मणां पुनरुत्पादाभावस्तदभावाच न भूयो जन्मोत्पत्तिः, अत एवोक्तमन्यत्रापि-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १॥"S उपसंहारमाह-'से एएणटेण'मित्यादि, एतदेव सिद्धखरूपं परममङ्गलभूतं शास्त्रस्य शिष्यप्रशिष्यादिवंशगतत्वेनाव्यवच्छित्तिर्भूयादित्यन्तमङ्गलत्वेनोपसंहारव्याजत आह-निच्छिण्णे'त्यादि, निस्तीर्ण सर्वदुःखं यैस्ते तथा, सकल-| सांसारिकदुःखपारगता इत्यर्थः, कुत इत्याह-जातिजरामरणबन्धनविषमुक्ताः' जातिश्च जरा च मरणं च बन्ध-| नानि च-ज्ञानावरणीयादीनि कर्माणि तैर्विप्रमुक्ताः, अत्र हेतौ प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्ताः ततो निस्तीर्णसर्वदुःखाः, ते इत्थंभूताः परमस्वास्थ्यरूपं 'शाश्वतं' शश्वद्भावि 'अव्याबाधं बाधारहितं, रागादयो हि न. तद्बाधितुं प्रभविष्णवो न च तेषां ते सन्तीत्यनन्तरमेव भावितं, सुखं प्राप्ताः, अत एव सुखिनः सन्तस्तिष्ठन्ति ॥ 320292020009882920292029202 Jain EducationalBonal For Personal & Private Use Only Jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy