________________
S899999999999
नानगारो न गृहस्थो नापि पाखण्डी, स च नियमाद् भावितात्मा विशिष्टशुभाध्यवसायकलितत्वात्, अन्यथा केवलित्वानुपपत्तेः, तत उक्तमनगारस्य भावितात्मन इति, केवलिसमुद्घातेन-उक्तखरूपेण समवहतस्य ये चरमाः-चरमसमयभाविनश्चतुर्थसमयमाविन इत्यर्थः, तैरेव सकललोकापूरणात् , 'निर्जरापुद्गला' इति निर्जरागुणयोगात् निर्ज-18 रा:-निर्जीर्णा इत्यर्थः ते च ते पुद्गलाश्चेति विशेषणसमासः, किमुक्तं भवति -ये लोकापूरणसमये पुद्गला आत्मप्रदेशेभ्यो विश्लिष्टाः परित्यक्तकर्मत्वपरिणामा इति, 'सुहुमा णं ते पुग्गला' इति णमिति निश्चये नियतमेतत् सूक्ष्माःचक्षुरादीन्द्रियपथमतिक्रान्तास्ते पुद्गलाः प्रज्ञप्ताः भगवद्भिहें श्रमण हे आयुष्मन् !, गौतमकृतं भगवतः सम्बोधन-1 मेतत्, तथा णमिति निश्चितमेतत् सर्वलोकमपि ते पुदलाः स्पृष्टा णमिति वाक्यालङ्कारे तिष्ठन्ति ? इति गौतमेन प्रश्ने कृते भगवानाह-'हंता गोयमा!' इत्यादि, हन्तेति प्रीती, यदाह शाकटायन:-'हन्तेति सम्प्रदानप्रीतिविषादादिवि'ति, प्रीतिश्चात्र यथावस्थितखरूपप्रतिपादकत्वात् प्रश्नसूत्रस्य साम्मत्यलक्षणा वेदितव्या, न तु हर्षरूपा, क्षीण-18 मोहत्वेन भगवतो हर्षविषादातीतत्वात् साम्मत्यमेव ख्यापयति, यदुक्तं गौतमेन तदेवानुवदति-'अणगारस्से'त्यादि भावितार्थ । सूक्ष्माः पुद्गला इत्युक्तं, तच सूक्ष्मत्वमापेक्षिकमपि भवति यथा बदरादीनामामलकाद्यपेक्षया, ततश्चक्षुरादीन्द्रियगोचरातिक्रान्तरूपं तत्प्रतिपिपादयिषुरिदमाह-'छउमत्थे णं भंते !' इत्यादि, छद्मस्थो भदन्त ! मनुष्यः तेषां-अनन्तरोद्दिष्टानां निर्जरापुदलानां किञ्चिदिति प्रथमतः सामान्येन प्रयुक्तं जानाति पश्यतीति सम्बध्यते,
9999999990020200
Jain Education tim
onal
For Personal & Private Use Only
HOMjainelibrary.org