________________
सिते, तत्थ णं जे से सातीए सपज्जवसिते से जह० अं० उक्को० अणं • अनंताओ उस्सप्पिणिओसप्पिणीओ कालओ खेत्ततो अवङ्कं पोग्गलपरियहं देणं, संजतासंजते णं पुच्छा, गो० ! जह० अंतो० उको० देखणं पुछ्कोडिं, नोसंजतेनोअसंजते नो संजतासंजते णं पुच्छा, गो० ! सादीए अपजवसिते । दारं १२ (सूत्रं २४३ ) सागारोवओगोवउत्ते णं भंते ! पुच्छा, गो० ! जह० उ० अं० । अणागारोवउत्तेवि, एवं चैव । दारं १३ ( सूत्रं २४४ )
'संजए णं भंते' इत्यादि, जघन्यत एकसमयता संयतस्य चारित्रपरिणामसमय एव कस्यापि कालकरणात्, असंयतस्तु त्रिधा - अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च तत्र यः संयमं कदाचनापि न प्राप्स्यति सोऽनाद्य पर्यवसितो, यस्तु प्राप्स्यति सोऽनादिसपर्यवसितो, यस्तु संयमं प्राप्य ततः परिभ्रष्टः स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त ततः परं कस्यापि पुनरपि संयमप्रतिपत्तिभावात् उत्कर्षतोऽनन्तं कालमित्यादि प्राग्वत् तत ऊर्द्धमवश्यं संयमप्राप्तिः, संयतासंयतो - देशविरतः, स च जघन्यतोऽप्यन्तर्मुहूर्त्त देशविरतिप्रतिपत्त्युपयोगस्य, जघन्यतोऽप्यान्त मौहूर्त्तिकत्वात्, देशविरतिर्हि द्विविधत्रिविधादिभङ्गबहुला ततस्तत्प्रतिपत्तौ जघन्येनाप्यन्तर्मुहूर्त्त लगति, सर्वविरतिस्तु सर्व सावद्यमहं न करोमीत्येवंरूपा ततस्तत्प्रतिपत्त्युपयोग एकसामयिकोऽपि भवतीति प्राक्र संयतस्य एकसमयतोक्ता, यस्तु न संयतो नाप्यसंयतो नापि संयतासंयतः स सिद्ध इति साद्यपर्यवसित इति । गतं संयतद्वारम् इदानीमुपयोगद्वारं, तत्रेदमादिसूत्रम् - ' सागारोवओगोवउत्ते णं भंते !' इत्यादि, इह संसारिणामुप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org