________________
cerce
पणन विमजावस्था-10१८काय
प्रज्ञापनायाः मलय० वृत्ती.
॥३९॥
रूपत्वात् नाप्यवधिदर्शनेन तस्यानाकारमात्रत्वादतः किं तेन पृथग्विवक्षितेनापीति तदभिप्रायेण न विभङ्गावस्थायामवधिदर्शनं, न चैतत् खमनीषिकाविजृम्भितं, पूर्वसूरिभिरप्येवं मतविभागस्य व्यवस्थापितत्वात् , उक्तं च विशे-I पणवत्यां जिनभद्रगणिक्षमाश्रमणपूज्यपादैः-"सुत्ते विभंगस्सवि परूवियं ओहिदंसणं बहुसो । कीस पुणो पडिसिद्धं कम्मप्पगडीपगरणंमि ॥१॥ विभंगेवि दरिसणं सामण्णविसेसविसयओ सुत्ते । तं चऽविसिट्ठमणागारमेत्तं तोऽवहिविभंगाणं ॥२॥ कम्मपगडीमयं पुण सागारेयरविसेसमावेवि । न विभंगनाणदंसणविसेसणमणिच्छयत्तणओ ॥३॥” इति, [सूत्रे विभङ्गस्यापि प्ररूपितमवधिदर्शनं बहुशः । कथं पुनः प्रतिषिद्धं कर्मप्रकृतिप्रकरणे ॥१॥ विभङ्गेऽपि दर्शनं सामान्यविशेषविषयतः सूत्रे। तच्चाविशिष्टमनाकारमानं ततोऽवधिविभङ्गयोः ॥२॥ कर्मप्रकृतिमतं पुनः साकारतरविशेषभावेऽपि।न विभङ्गज्ञानदर्शनविशेषोऽनिश्चयत्वात् ॥३॥] अन्ये तु व्याचक्षते-किं सप्तमनरकपृथिवीनिवासिनारककल्पनया ?, सामान्येनैव नारकतिर्यग्नरामरभवेषु पर्यटतः खल्ववधिविभङ्गौ एतावन्तं कालं भवतस्तत ऊर्द्धमपवर्ग इति । केवलदर्शनिनः सूत्रं केवलज्ञानिनः सूत्रवद्भावनीयं, । गतं दर्शनद्वारम् , इदानीं संयतद्वारं, तत्रेदमादिसूत्रम्
संजए णं भंते ! संजतेत्ति पुच्छा, गो० ! ज० एग समयं उक्को० देसूर्ण पुवकोडिं, असंजते ण भंते ! असंजएत्ति, पुच्छा, गो० ! असंजते तिविधे पं०, तं०-अणातीए वा अपजवसिते अणातीए वा सपजवसिते सातीए वा सपजव
॥३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org