SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ASIविग्रहेणोत्पद्यते, विग्रहे विभङ्गस्य तिर्यक्षु मनुष्येषु च निषेधात्, यद्वक्ष्यति-"विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा आहारगाणो अणाहारगा" इति, आह-किं सम्यक्त्वमेषोऽपान्तराले प्रतिपाद्यते ?, उच्यते, इह विभङ्गस्य स्थितिरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाणि देशोनपूर्वकोट्यभ्यधिकानि, तथा चोक्तं प्राक्-"विभंगणाणी जह० एग समयं उक्को तेत्तीसं सागरोवमाई देसूणाए पुवकोडीए अब्भहियाई" इति, तत एतावन्तं कालमविच्छेदेन विभङ्गस्याप्राप्यमाणत्वात् अपान्तराले सम्यक्त्वं प्रतिपाद्यते, ततोऽप्रतिपतितविभङ्ग एव मनुष्यत्वमवाप्य संयम पालयित्वा द्वौ वारौ विजयादिषूत्पद्यमानस्य द्वितीया षट्रपष्टिः सागरोपमाणां सम्यग्दृष्टेभवति, एवं द्वे षषष्टी सागरोपमाणामवधिदर्शनस्य, अथ विभङ्गावस्थायामवधिदर्शनं कर्मप्रकृत्यादिषु प्रतिषिद्धं ततः कथमिह विभङ्गे तद्भाव्यते?, नैष दोषः, सूत्रे विभङ्गेऽप्यवधिदर्शनस्य प्रतिपादितत्वात् , तथा ह्ययं सूत्राभिप्रायः-विशेषविपयं विभगज्ञानं सामान्यविषयमवधिदर्शनं, यथा सम्यग्दृष्टेः विशेषविषयमवधिज्ञानं सामान्यविषयमवधिदर्शनमुच्यते केवलं विभङ्गज्ञानिनोप्यवधिदर्शनमनाकारमात्रत्वेनाविशिष्टत्वात् अवधिज्ञानिनोऽवधिदर्शनतुल्यमिति तदप्यवधिदर्शनमु च्यते, न विभङ्गदर्शन मिति, आह च मूलटीकाकारोऽप्येतद्भावनायाम्-“दंसणं च विभंगोहीणं जतो तुल्लमेव, 18 अतो चेव दो छावट्ठीओ साइरेगाओ' इति, ततोऽस्माभिरपि विभङ्गेऽवधिदर्शनं भावितं, कार्मग्रन्थिकाः पुनराहु: यद्यपि साकारतरविशेषभावेन विभङ्गज्ञानमवधिदर्शनं च पृथगस्ति तथापि न सम्यग्निश्चयो विभङ्गज्ञानेन, मिथ्यात्व 9oporaeadee99000202929 Jan Education Intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy