________________
प्रज्ञापनाया: मलय० वृत्तौ.
॥३९॥
ओहिंदसणी णं पुच्छा, गो! जह० एगं समयं उक्को दो छावट्ठीओ सागरोवमाणं साइरेगाओ, केवलदंसणी णं पुच्छा, १८ कायगो० ! सातीए अपज्जवसिते ॥ दारं ११ । (२४२)
स्थितिपदं 'चक्खुदंसणी णं भंते !' इत्यादि, इह यदा त्रीन्द्रिया दिश्चतुरिन्द्रियादिषूत्पद्य तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि त्रीन्द्रियादिषु मध्ये उत्पद्यते तदा चक्षुर्दर्शनी अन्तर्मुहूर्त लभ्यते, उत्कर्पतः सातिरेकं सागरोपमसहस्रं, तच्चतुरिन्द्रि-2 यतिर्यपञ्चेन्द्रियनैरयिकादिभवभ्रमणेनावसातव्यम् , अचक्षुर्दर्शनी अनाद्यपर्यवसितो यो कदाचिदपि न सिद्धिभावमधिगमिष्यति, यस्त्वधिगन्ता सोऽनादिसपर्यवसितः, तथा तिर्यकपञ्चेन्द्रियो मनुष्यो वा तथाविधाध्यवसायादवधिदर्शनमुत्पाद्यानन्तरसमये यदि कालं करोति तदाऽवधिदर्शनं प्रतिपतति, तदाऽवधिदर्शनिन एकसमयता, उत्कर्षतोऽवधिदर्शनी द्विषट्पष्टी सागरोपमाणि सातिरेकाणि, कथमिति चेत्, उच्यते, इह कश्चिद्विभङ्गज्ञानी तिर्यपञ्चेन्द्रियो मनुष्यो वाऽप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्याऽधःसप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थिति रयिको जातः, तत्र चोद्वर्तनाप्रत्यासत्तिकाले सम्यक्त्वमुत्पाद्य ततः परिभ्रष्टस्ततोऽप्रतिपतितेन विभङ्गज्ञानेन पूर्वकोट्यायुष्केषु तिये
पञ्चेन्द्रियेषु समुत्पन्नस्तत्र च परिपूर्ण खायुःप्रतिपाल्य पुनरप्रतिपतितविभङ्ग एवाधःसप्तमपृथिव्यां त्रयस्त्रिंशत्सागरो-| ॥३९॥ पमस्थितिको नैरयिको जातस्तत्रापि चोद्धृत्तिप्रत्यासत्तौ सम्यक्त्वमासाद्य परित्यजति, ततो भूयोऽप्यप्रतिपतितविभङ्ग एव पूर्वकोट्यायुष्केषु तिर्यपञ्चेन्द्रियेषु जातस्तदेवमेका षट्षष्टिः सागरोपमाणामभून् , सर्वत्र च तिर्यसूत्पद्यमानो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org