SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ | त्वमधिगच्छति स सादिस पर्यवसितः, स च जघन्येनान्तर्मुहूर्त्त, परतः सम्यक्त्वस्यासादनेनाज्ञानित्यपरिणामापगमसम्भवात् उत्कर्षतोऽनन्तं कालमित्यादि प्राग्वत्, तत ऊर्द्धमवश्यं सम्यक्त्वावासेरज्ञा नित्वापगमात् एवं मत्यज्ञानी श्रुताज्ञानी च त्रिविधो भावनीयः, विभङ्गज्ञानी जघन्यत एकं समयं कथमिति चेत् ?, उच्यते, कश्चित्तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वा सम्यग्दृष्टित्वादवधिज्ञानी सन् मिथ्यात्वं गतस्तस्मिंश्च मिथ्यात्वप्रतिपत्तिसमये मिध्यात्वप्र भावतोऽवधिज्ञानं विभङ्गज्ञानीभूतं, “आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त" मिति वचनात् ततोऽनन्तरसमये | देवस्य च्यवनेनान्यस्य मरणेनान्यथा वा तद्विभङ्गज्ञानं परिपतति, तत एवमेकसमयता विभङ्गज्ञानस्य, उत्कर्षतस्त्रयत्रिंशत्सागरोपमाणि देशोन पूर्वको ट्यभ्यधिकानि, तथाहि-- यदि कश्चिन्मिथ्यादृष्टिस्तिर्यक्रपञ्चेन्द्रियो मनुष्यो वा पूर्वको व्यायुः कतिपयवर्षातिक्रमे विभङ्गज्ञानी जायते, जातश्च सन्नप्रतिपतितविभङ्गज्ञान एवाविग्रहगत्या सप्तमनरकपृथिव्यां त्रयस्त्रिंशत्सागरोपमस्थितिको नैरयिको जायते तदा भवति यथोक्तमुत्कृष्टं मानं, तत ऊर्द्ध तु सम्यक्त्वप्रतिपत्त्याऽवधिज्ञानभावतः सर्वथाऽपगमाद्वा तद्विभङ्गज्ञानमपगच्छति । गतं ज्ञानद्वारम्, इदानीं दर्शनद्वारं, तत्रेदमादिसूत्रम् - चक्खुदंसणी णं भंते! पुच्छा, गो० ! जह० अंतो० उक्कोसेणं सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी णं भंते ! अचक्खुदंसणित्ति काल०, गो० ! अचक्खुदंसणी दुविहे पं० तं० - अणादीए वा अपजवसिते अणादीए वा सपञ्जवसिए, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy