________________
३६ समु. | दघातपदे क्रोधादिसमुद्धाताद्यल्पबहुत्वं
प्रज्ञापना-18 स्कारानुवृत्तितो मानसमुद्घाते वर्तमानानां प्राप्यमाणत्वात् , तेभ्यः क्रोधसमुद्घातेन समवहता विशेषाधिकाः, याः मल- मानापेक्षया क्रोधिनां प्रचुरत्वात् , तेभ्यो मायासमुद्घातेन समवहता विशेषाधिकाः, क्रोध्यपेक्षया मायाविना य० वृत्तौ. प्रचुरत्वात् , तेभ्योऽपि लोभसमुद्घातेन समवहता विशेषाधिकाः, मायाविभ्यो लोभवतामतिप्रभूतत्वात् , तेभ्यो
पि केनाप्यसमवहता सङ्ख्येयगुणाः, चतसृष्वपि गतिषु प्रत्येकं समवहतेभ्योऽसमवहतानां सदा सद्ध्येयगुणतया ॥५८९॥
प्राप्यमाणत्वात् , सिद्धास्त्वेकेन्द्रियापेक्षयानन्तभागवर्त्तिन इति ते सन्तोऽपि न विवक्षिताः, एतदेवाल्पबहुत्वं चतुर्विशतिदण्डकक्रमेण चिन्तयन्नाह-'एएसि ण'मित्यादि सुगम, नवरं सर्वस्तोका नैरयिका लोभसमुद्घातेन समवहता इति, नैरयिकाणामिष्टद्रव्यसंयोगाभावात् प्रायो लोभसमुद्घातस्तावन्नोपपद्यते, येषामपि च केषाञ्चिद्भवति ते कतिपया इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, असुरकुमारविषयाल्पबहुत्वचिन्तायां सर्वस्तोकाः क्रोधसमुद्घातसमुद्धता इति, देवा हि खभावतो लोभबहुलास्ततोऽल्पतरामानादिमन्तः ततोऽपि कदाचित्कतिपये क्रोधवन्त इति शेषसमुद्घातसमवहतापेक्षया सर्वस्तोकाः, 'एवं सचदेवा जाव वेमाणिया' इति एवं-असुरकुमारगतेनाल्पबहुत्वप्रकारेण सर्वे देवा नागकुमारादयस्तावद्वक्तव्याः यावद्वैमानिकाः, पृथिवीकायिकचिन्तायां सामान्यतो जीवपदे इव - भावना भावनीया, समानत्वात् , 'एवं जावे'त्यादि, एवं-पृथिवीकायिकोक्तेन प्रकारेण तावद्वक्तव्यं यावत् तिर्यपञ्चेन्द्रियाः, मनुष्या यथा जीवाः, नवरमकपायसमुद्घातसमवहतापेक्षया मानसमुघातेन समवहता
02020829092029202
॥५८॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org