SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ असङ्ख्येया अनन्ताः, तत्र एकादयः क्षीणायुःशेषाणां तद्भवभाजां भूयस्तथैवानुत्पद्यमानानामवगन्तव्याः, सङ्ख्येया-2 दियो नैरयिकस्येव भावनीयाः, असुरकुमारस्य नागकुमारत्वेऽतीताः प्राग्वत्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽसुरकुमारभवादुदृत्तो न नागकुमारभवं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि स्यात् सङ्ख्येयाः स्यादसङ्ख्येयाः स्यादनन्ताः, तत्र सकृन्नागकुमारभवं प्राप्तुकामस्य सङ्ख्येयाः, जघन्यस्थिता-IN | वपि सङ्ख्येयानां लोभसमुद्घातानां भावात् ,असङ्ख्येयान् वारान् प्राप्तुकामस्य असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवं यावत् स्तनितकुमारत्वे, पृथिवीकायिकत्वे यावद्वैमानिकत्वे यथा नैरयिकस्य भणितं तथैव भणितव्यं, एवमसुर-18 कुमारस्येव नागकुमारादेरपि तावद्वक्तव्यं यावत्स्तनितकुमारस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तंचैवं-'एगमेगस्स णं भंते ! थणियकुमारस्य वेमाणियत्ते केवइया लोभसमुग्धाया अतीता? इत्यादि, एवं 'एगमेगस्स णं भंते ! पुढविकाइयस्स नेरइयत्ते' इत्याद्यपि सूत्रं पूर्वोक्तभावनानुसारेण वयं भावनीयं, तदेवं नैरयिकादेरेकत्वविषयाः क्रोधादिसमुद्घाताः प्रत्येकं चतुर्विशत्या चतुर्विशतिदण्डकसूत्रैर्विचिन्तिताः, सम्प्रति तानेव नेरयिकादिबहु-18 त्वविषयान् चिचिन्तयिपुरिदमाह-नेरइयाणं भंते' इत्यादि, नैरयिकाणां भदन्त ! नैरयिकत्वे कियन्तः क्रोधसमुद्घाता अतीताः ?, भगवानाह-गौतम ! अनन्ताः. अनन्तशो नैरयिकत्वस्य सर्वजीवैःप्राप्सत्वात् , कियन्तः पुरस्कृताः १, गौतम ! अनन्ताः, प्रश्नसमयभाविनां मध्ये बहूनामनन्तशो नैरयिकत्वं प्राप्तकामत्वात् 'एव'मित्यादि, earn0202000000000000 Jain Education in For Personal & Private Use Only Migainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy