________________
प्रज्ञापनायाः मलय० वृत्ती.
॥५८७ ॥
Jain Education
त्वात्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति एतत् प्राग्वद् भावनीयं यस्यापि सन्ति तस्यापि कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, न तु जातुचित् सङ्ख्येयाः, ज्योतिष्काणां जघन्यपदेऽप्यसङ्ख्येयवर्षायुष्कतया जघन्यतोऽप्यसङ्ख्येयानां लोभसमुद्घातानां भावात्, लोभबहुलत्वात्तज्जातेः, एवं वैमानिकत्वेऽपि पुरस्कृत चिन्तायां वक्तव्यं । तदेवं स्वस्थाने परस्थाने च लोभसमुद्घातश्चिन्तितः सम्प्रत्यसुरकुमारस्य तं चिचिन्तयिषुरिदमाह – ' एगमेगस्स ण' - मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्घाता अतीता अनन्ताः, नैरयिकत्वस्यानन्तशः प्राप्तत्वात्, पुरस्कृताः कस्यचित् सन्ति कस्यचिन्न संन्ति, तत्र योऽसुरकुमारभवादुद्वृत्तो न नरकं याता नापि सकृद् गतोऽपि लोभसमुद्घातं गन्ता तस्य न सन्ति यस्तु यास्यति तस्य जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ताः, तत्र सकृन्नरकगामिनः एकादयो नैरविकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्यासम्भवात्, उक्तं च मूलटीकायाम् – “नेरइयाणं लोभसमुग्धाया थोवा चेवं भवन्ति, तेसिमिट्ठदवसंजोगाभावातो एगादिसंभव" इति सङ्ख्येयान् वारान् नरकं गन्तुः सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्या अनन्तान् वारान् अनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र योs - सुरकुमारभवे पर्यन्तवर्त्ती न च लोभसमुद्घातं याता नापि तत उद्धृत्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य न सन्ति यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्येया
For Personal & Private Use Only
३६ समुद्यातपदं
स्वपर स्थ
ने कराय
स० सू. ३३९
॥५८७॥
inelibrary.org