________________
लenesceneseseeeeees
न्मनुष्यसूत्र, तत्राप्कायिकादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति एतत् सकृत् द्वीन्द्रियभवं प्रामुकामस्य वेदितव्यं, उत्कर्षेण सङ्ख्येया असङ्ख्येया अन-11 न्ता वा, तत्र सङ्ख्येयान् वारान् द्वीन्द्रियभवं प्राप्नुकामस्य सङ्ख्येया असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् । अनन्ताः, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, तिर्यपञ्चेन्द्रियसूत्रविषया त्वेवं भावना-सकृत् पञ्चेन्द्रियभवं गन्तुकामस्य खभावत एवाल्पलोभस्य जघन्यतः एको द्वौ त्रयो वा, शेषस्य तूत्कर्षतः सङ्ख्येयान् वारान् तिर्यपञ्चे|न्द्रियभवं गन्तुः सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया |भावनामूलत एवं-यो नरकभवादुद्दत्तोऽल्पलोभकषायः सन् मनुष्यभवं प्राप्य लोभसमुद्घातमगत्वा सिद्धिपुरं यास्यति तस्य न सन्ति पुरस्कृता लोभसमुद्घाताः, शेषस्य तु सन्ति, यस्य सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो बा, ते च एकं द्वौ त्रीन् वा लोभसमुद्घातान् प्राप्य सेत्स्यतो वेदितव्याः, सङ्ख्येयादयः प्राग्वद् भावनीयाः, 'वाणमंतरत्ते जहा असुरकुमारा' इति यथा नैरयिकस्यासुरकुमारत्वे पुरस्कृतविषये सूत्रमुक्तं तथा व्यन्तरेष्वपि वक्तव्यं, किमुक्तं भवति ?-पुरस्कृतचिन्तायामेवं वक्तव्यं-'कस्सइ अस्थि क. नत्थि, जस्स अस्थि सिय संखेजा सिय असं० सिय अणंता' इति, नत्वेकोतरिका वक्तव्या, व्यन्तराणामप्यसुरकुमाराणामिव जघन्यस्थितावपि सङ्ख्येयानां लोभसमुद्घातानां भावात् , 'जोइसियत्ते' इत्यादि, ज्योतिष्कत्वे अतीता अनन्ताः, अनन्तशो ज्योतिष्कत्वस्य प्राप्त
Celecceeeeeeeeeeeeeeeeeeee4
Jain Education LIVEL
स्ट
For Personal & Private Use Only
Kamjainelibrary.org