________________
क्रोधसमुद्घातो नापि तत उद्धृत्तो भूयोऽप्यसुरकुमारत्वं याता तस्य न सन्ति, यस्तु सकृदसुरकुमारत्वमागामी तस्य जघन्यपदे एको वा द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ता वा, सङ्ख्येयान् वारान् आगामिनः |सङ्ख्येया असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु असुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह-'एवं नागकुमारत्तेऽवी'त्यादि, तदेवमसुरकुमारेषु क्रोधसमुद्घातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह-एव'मित्यादि, एवमुक्तेनाभिलापगतेन प्रकारेण यथा चतुर्विशतिदण्डकक्रमेण असुरकुमारो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितः तथा नागकुमारादयः समस्तेषु खस्थानपरस्थानेषु भणितव्याः यावद्वैमानिकस्य वैमानिकत्वे आलापकः, एवमेतानि नैरयिकचतुर्विशतिदण्डकादिसूत्राणि वैमानिकचतुर्विंशतिदण्डकपर्यवसानानि चतुर्विंशतिः सूत्राणि वेदितव्यानि । तदेवं चतुर्विंशतिदण्डकसूत्रः क्रोधसमुद्घातश्चिन्तितः, सम्प्रति चतुर्विशत्यैव चतुर्विंशतिदण्ज्कसूत्रैर्मानसमुद्घातं मायासमुद्घातं चाभिधित्सुरतिदेशमाह-माणसमुग्घाए मायासमुग्घाए निरवसेसं जहा मारणंतियसमुग्घाए' इति, यथाप्राक् मारणान्तिकसमुद्घातेऽभिहितं सूत्रं तथा मानसमुद्घाते मायासमुद्घाते च निरवशेषमभिधातव्यं, तच्चैवं'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया माणसमुग्घाया अईया', गोयमा ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अत्थि जहन्नेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखे
2989229202090882020020233
Jain प्र.९८NI
For Personal & Private Use Only
Mahinelibrary.org