________________
प्रज्ञापनायाः मलय० वृत्ती.
३६ समु
द्घातपदं स्वपरस्थाने कषाय|स० सू.
॥५८३॥
मुदयातं गन्ता तस्यैकोऽपि पुरस्कृतः क्रोधसमुद्घातो वैमानिकत्वे न विद्यते, यस्त्वसकृद्वैमानिकत्वं प्राप्तः सन् सकृदेव क्रोधसमुद्घातं याता तस्य जघन्यत एको द्वौ वा त्रयो वा, शेषस्य सङ्ख्यातान् वारान् वैमानिकत्वं प्राप्स्यतः सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, 'एगमेगस्स ण'मित्यादि प्रश्नसूत्रं सुगम, 'गो! अणंता' इति, अनन्तशो नैरयिकत्वं प्राप्तस्य, एकैकस्मिंश्च नैरयिकभवे जघन्यपदेऽपि सङ्ख्येयानां क्रोधसमुघातानां भावात् , पुरस्कृताः कस्यचित्सन्ति कस्यचिन्न सन्ति, किमुक्तं भवति ?-योऽसुरकुमारभवादुहृत्तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुष्यभवमवाप्य सेत्स्यति तस्य नैरयिकावस्थाभाविनः पुरस्कृताः क्रोधसमुद्घाता न सन्ति, नैरयिकत्वावस्थाया एवासम्भवात्, यस्तु तद्भवादूर्व पारम्पर्येण नरकगामी तस्य सन्ति, तस्यापि कस्यचित् सङ्ख्येयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृजघन्यस्थितिकेषु नरकमध्येषु समुत्पत्स्यते तस्य जघन्यपदेऽपि सङ्ख्येयाः दशवर्षसहस्रप्रमाणायामपि स्थितौ सङ्ख्येयानां क्रोधसमुद्घातानां भावात् , क्रोधबहुलत्वान्नारकाणां, असकृत् दीर्घस्थितिषु सकृद्वा गमनेऽसङ्ख्येयाः अनन्तशो नरकगमनेऽनन्ताः, तथा एकैकस्य भदन्त ! असुरकुमारस्य असुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तः क्रोधसमुद्घाता अतीताः?, भगवानाह-अनन्ताः अनन्तशोऽसुरकुमारभावस्य प्राप्तत्वात् , प्रतिभवं च क्रोधसमुद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यापि सन्ति कस्यापि न सन्ति, यस्य प्रश्नकालादूचं असुरकुमारत्वेऽपि वर्चमानस्य न भावी
॥५८३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org