SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सर्वस्तोका जीवा आहारकसमुद्घातेन समुद्धताः, आहारकशरीरिणो हि कदाचिदिह लोके षण्मासान यावन्न भवन्त्यपि, यदापि भवन्ति तदापि जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सहस्रपृथक्त्वं, केवलमाहाकसमुद्घात | आहारकशरीरप्रारम्भकाले न शेषकालं ततः स्तोका एव युगपदाहारकसमुद्घाताः प्राप्यन्ते इति सर्वस्तोका आहारकसमुद्घोतन समुद्धताः,तेभ्यः केवलिसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, तेषामेककालं शतपृथक्त्वेन प्राप्यमाणत्वात् , यद्यप्याहारकशरीरिणः सत्तया समकालं एको द्वौ वा त्रयो वा उत्कर्षतः सहस्रपृथक्त्वमानाः प्राप्यन्ते तथाप्या(पि स्तोकानामा)हारकसमुद्घातसम्भवात् एककालमतिस्तोकाः प्राप्यन्ते इति न तेभ्यः केवलिसमुद्घातसमुद्धतानां सङ्खये। यगुणत्वविरोधः, केवलिसमुद्घातसमुद्धतेभ्यः तैजससमुद्घातेन समवहताः असङ्ख्येयगुणाः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां देवानामपि च तैजससमुद्घातंसम्भवात् , तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, नारकवातकायिकानामपि वैक्रियसमुद्घातसम्भवात् , वातकायिकाश्च वैक्रियलब्धिमन्तो न स्तोकाः, किन्तु देवेभ्योऽप्यसङ्ख्येयगुणाः, कथमेतदिति चेत्, उच्यते, इह बादरपर्याप्तवायुकायिकाः स्थलचरपञ्चेन्द्रियेभ्योऽसङ्ख्येयगुणाः, महादण्डके तथा पठितत्वात् , स्थलचरपञ्चेन्द्रियाश्च देवेभ्योऽप्यसङ्ख्येयगुणाः, ततो यद्यपि बादरपर्याप्तवायुकायिकानां सङ्ख्येयभागमात्रस्य वैक्रियलब्धिसम्भवो, यत उक्तम्-"तिण्हं ताव रासीणं वेउवियलद्धी चेव नत्थि, बायरपजत्ताणंपि संखेजइभागमेत्ताणं"ति, तथापि सङ्ख्येयभागमात्रा वैक्रियलब्धिमन्तो देवेभ्योऽप्यसङ्ख्येयगुणा भवन्ति, OrOS99292020 रि Jain Education For Personal & Private Use Only nelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy