SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ वेमाणियाण'मिति नैरयिकाणां चतुर्विशतिदण्डकक्रमेण चिन्ता कृता एवमसुरकुमार(दीनामपि प्रत्येक चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्या यावद्वैमानिकानां, केवलं यत्रास्ति विशेषस्तं दर्शयति-'नवर'मित्यादि, नवरं वनस्पतिकायिकानां ||५|| मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च प्रत्येकमनन्ता वक्तव्याः, अनन्तानां पूर्वमधिगतचतुर्दशपूर्वाणां यथायोगमेकशो द्विःत्रिर्वा कृताहारकसमुद्घातानांवनस्पतिष्ववस्थानात् अनन्तरमेव वनस्पतिकायादुद्धृत्यानन्तर्येण पारम्पर्येण वा मानुपत्वमवाप्य यथायोगमेकशोद्विःत्रिश्चतुर्वाऽऽहारकसमुद्घातानां निर्वयिष्यमाणत्वात्, मनुष्याणां मनुष्यत्वावस्थायामतीताः पुरस्कृताश्च स्यात्सङ्ख्ययाः स्यादसङ्ख्येयाः,कथमिति चेत् ,उच्यते,ते हि प्रश्नसमयभाविनः उत्कर्षपदेऽपि सर्वस्तोकाः, श्रेण्यसङ्ख्येयभागगतप्रदेशराशिप्रमाणत्वात् , ततो विवक्षितप्रश्नसमयभाविनां मध्ये कदाचिदसङ्ख्येयाः-यथायोगं प्रत्येकमेकशो द्विः त्रिश्चतुवा कृतकरिष्यमाणाहारकसमुद्घाताः प्राप्यन्ते, उपसंहारमाह-एव'मित्यादि, एवमुक्तेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विंशतिश्चतुर्विशतिसङ्ख्याका दण्डका वक्तव्याः, सम्प्रति केवलिसमुद्घातं चिन्तयति-'नेरइयाण'मित्यादि, केवलिसमुद्घातोऽपि मनुष्यत्वावस्थायां भवति, न शेषाखवस्थासु, न च कृतकेवलिसमुद्घातः संसारं पर्यटति, केवलिसमुद्घातानन्तरमन्तर्मुहूर्तेनावश्यं निःश्रेयसपदाधिगमात् , ततो नारकाणां मनुष्यत्ववासु शेषाखवस्थाखतीताः पुरस्कृताश्च केवलिसमुद्घाताः प्रतिषेद्धव्याः, मनुष्यत्वावस्थायामप्यतीताः प्रतिषे. द्धव्याः, कृतकेवलिसमुद्घातानां नरके गमनाभावात्, भाविनश्च भविष्यन्ति, प्रश्नसमयभाविनां मध्ये बहूनामसङ्खये कारण एते आहारक केवलिसमुद्घाता तावश्यं निःश्रेयसपद Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy