________________
प्रज्ञापना
याः मल
य० वृत्तौ.
॥५७६ ॥
Jain Education I
' एवं जावे' त्यादि, एवं - वेदनासमुद्घातगतेन प्रकारेण कषायादिसमुद्घाता अपि तावद्वक्तव्याः यावत्तैजससमुद्धतिः, किमविशेषेण वक्तव्याः १, नेत्याह - 'नवर 'मित्यादि, नवरमुपयुज्य - उपयोगं कृत्वा सर्वं सूत्रं बुद्ध्या नेतव्यं, किमुक्तं भवति ? – ये यत्र समुद्घाता घटन्ते ते तत्रातीताः पुरस्कृताश्चानन्ता वक्तव्याः, शेषेषु च स्थानेषु प्रतिषेद्धव्याः एतदेव वैविक्त्येनाह - 'जस्स अत्थी' त्यादि, यस्य जीवराशेनैरयिकादेरसुरकुमारादेश्च सन्ति वैक्रियतैजससमुद्घातास्ते तस्य वक्तव्याः, शेषेषु पृथिव्यादिषु स्थानेषु प्रतिषेद्धव्या इति सामर्थ्य लभ्यं, कषायमारणान्तिकसमुद्घाताः पुनः सर्वत्रापि वेदनासमुद्घातवदविशेषेणातीताः पुरस्कृताश्चानन्ता वक्तव्याः, न तु क्वापि निषेद्धव्याः । सम्प्रति आहारसमुदूधातविषयं सूत्रमाह - 'नेरइयाण' मित्यादि, आहारकसमुद्घातो ह्याहारकलब्धौ सत्यामाहा रकशरीरप्रारम्भकाले भवति, नान्यथा, आहारकलब्धिश्चोपजायते चतुईशपूर्वाधिगमे, तेषां चतुर्द्दशानां पूर्वाणामधिगमो मनुष्यत्वावस्थाय न शेषायामवस्थायामिति मनुष्यत्ववर्जासु शेषास्ववस्थास्खतीतानां पुरस्कृतानां चाहारकसमुद्घा तानां प्रतिषेधः, मनुष्यत्वावस्थायामपि पूर्वमतीता असङ्ख्येयाः, प्रश्नसमयभाविनां नारकाणां मध्ये बहूनामसोयानां नारकाणां पूर्व तदा २ मनुष्यत्वमवाप्य अधिगतचतुर्द्दशपूर्वाणां प्रत्येकं सकृद् द्विः त्रिर्वा कृताहारकसमुद्घातत्वात्, पुरस्कृता अपि असङ्ख्येयाः, प्रश्नसमयभाविनां नारकाणां मध्ये बहुभिरसङ्ख्ये यैर्नारिकैर्नर कादुद्वृत्त्यानन्तर्येण पारम्पर्येण वा तदा तदा मनुष्यत्वावासौ चतुर्द्दश पूर्वाण्यधीत्य प्रत्येकमाहारकसमुद्घातानामेकशो द्विः त्रिश्चतुर्वा करिष्यमाणत्वात्, 'एवं जाव
For Personal & Private Use Only
३६ समुदूधातपदं
२ नारकादीनां नारकत्वादौ स
मुद्घाताः
सु. ३३६
॥५७६॥
ainelibrary.org