SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 200999999999999 गस्स णमित्यादि, इह सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्तायामतीता जघन्यत एको द्वौ वा उत्कर्षतस्त्रयश्च, पुरस्कृता जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, शेषेषु स्थानेषु अतीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यस्य मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च जघन्यत एको वा द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, अत्रार्थे च कारणं प्रागेवोक्तं, अत्रापि सूत्रसङ्ख्यामाह-एव'मित्यादि, एवम्-उपदर्शितेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विशतिसङ्ख्याकाः दण्डका वक्तव्याः, कियहरं यावदित्याह-यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तच्चैवम्-'एगमेगस्स णं भंते ! वेमाणियस्स बेमाणियत्ते केवइया आहारगसमुग्घाया अतीता ?, गो० ! नत्थि, केवइया पुरेक्खडा, गो० नत्थि' इति । अधुना केवलिसमुद्रातमभिधित्सुराह-एगमेगस्स णं भंते' इत्यादि, अत्राप्ययं तात्पर्यार्थः-सर्वेष्वपि स्थानेषु मनुष्यत्वचिन्ताव्यतिरेकेणातीताः पुरस्कृताश्च प्रतिषेद्धव्याः, मनुष्यवर्जेषु मनुष्यत्वचिन्तायामतीताः प्रतिषेद्धव्याः, पुरस्कृतस्तु कस्याप्यस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एवेति वक्तव्यः, मनुष्यस्य मनुष्यत्वचिन्तायामतीतः कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक एव, एतच्च प्रश्नसमये केवलिसमुद्घातादुत्तीर्ण केवलिनमधिकृत्य, पुरस्कृतोऽपि कस्यापि अस्ति कस्यापि नास्ति, यस्याप्यस्ति तस्याप्येक इति वक्तव्यं, अत्रापि सूत्रसङ्ख्यामाह-'एव'मित्यादि एवम्-उपदर्शितेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विशतिश्चतुर्विशतिसङ्ख्याका दण्डका भवन्ति, तदेवं सर्वसङ्ख्यया एकत्वविषयाणां चतुर्विशतिदण्डकसूत्राणाम Jain Education DIXI For Personal & Private Use Only ww.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy