________________
एतावत्प्रमाणा एकहीनाः, ते चातीव शेषनारकादिजीवराश्यपेक्षया स्तोकाः, तत्रापि ये पूर्वभवेषु कृताहारकशरीरास्ते कतिपयाः, ते च कदाचित् विवक्षितप्रश्नसमये सङ्ख्येयाः कदाचिदसङ्ख्येयाः, तत उक्तम्-'सिय संखेजा सिय असंखेज्जा'इति, अनागतेऽपि काले विवक्षितप्रश्नसमयभाविनां मध्ये कतिसङ्ख्या एवाहारकशरीरमारप्स्यन्ति तेऽपि कदाचित् सङ्ख्येयाः कदाचिदसल्येयाः, तत आह-'एवं पुरेक्खडावित्ति एवं अतीतगतेन प्रकारेण वनस्पतिकायिकानां मनुष्याणां च पुरस्कृता अपि आहारकसमुद्घाता वेदितव्याः,ते चैवम्-'वणप्फइकाइयाणं भंते ! केवइया आहारगसमु|ग्घाया पुरेक्खडा?, गो! अणंता, मणुस्साणं भंते ! केवइया आहारगसमुग्पाया पुरेक्खडा ?, गो! सिय संखेजा सिय असंखेजा'इति,केवलिसमुद्घातविषयं प्रश्नसूत्रमाह-'नेरइयाणं भंते।' इत्यादि सुगम,भगवानाह-गौतम नसन्ति केचनातीता नैरयिकाणां केवलिसमुद्घाताः, कृतकेवलिसमुद्घातानां नारकादिगमनासम्भवात्, कियन्तः पुरस्कृता इति प्रश्नः, भगवानाह-गौतम ! असङ्ख्येयाः, सर्वदा विवक्षितप्रश्नसमयभाविनां मध्येऽसङ्ख्यातानां भाविकेवलिसमुद्घातत्वात् , तथा केवलवेदसोपलब्धः, एवं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद् वाच्यं यावद् वैमानिकानां सूत्रं, तथा चाह-एवं जाव वेमाणियाणं' अत्रैव विशेषमाह-'नवर'मित्यादि, नवरं-वनस्पतिकायिकेषु मनुष्येषु चेदं वक्ष्यमाणलक्षणं नानात्वं, तदेवाह-वणप्फइकाइयाण'मित्यादि, अत्र प्रश्नसूत्रं सुप्रतीतं, उत्तरसूत्रे निर्वचनं-अनन्ताः, अनन्तानां भाविकेवलिसमुद्घातानां तत्र भावात्, 'मणुस्साण'मित्यादि, अत्रापि प्रश्नसूत्रं सुगम, भगवानाह
Jain Education Indo
For Personal & Private Use Only
w
hinelibrary.org