SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. ॥५६६॥ ३६ समुद्घातपदे सामान्येनातीता समु.सू. ३३२ 9890989929 चतुर्विशतिदण्डकसूत्राणि भवन्ति, एतदेवाह-एवमेएवि य पंच चउच्चीसदंडगा' इति, आहारकसमुद्घात|चिन्तां कुर्वन्नाह-'नेरइयाण'मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम! असङ्ख्येयाः, इयमत्र भावनाइह नैरयिकाः सर्वदाऽपि प्रश्नसमयभाविनः सर्वसङ्ख्ययाऽप्यसङ्ख्येयाः, तेषामपि मध्ये कतिपयाः सङ्ख्यातीताः कृतपूर्वाहारकसमुद्घातास्ततोऽसङ्ख्येया एव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ता नापि सङ्ख्येयाः, एवं पुरस्कृता अपि भावनीयाः, एवं चतुर्विशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानां, आह च-'एवं जाव वेमाणियाणं' अत्रैव यो विशेषस्तं दिदर्शयिषुराह-'नवर'मित्यादि, नवरं वनस्पतिकायिकचिन्तायां मनुष्यचिन्तायां च नैरयिकापेक्षया नानात्वमवसेयं, तदेव नानात्वमाह-वणप्फइकाइयाण'मित्यादि,अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम!अनन्ताः, अनन्तानामधिगतचतुर्दशपूर्वाणां कृताहारकसमुद्घातानां प्रमादवशतः उपचितसंसाराणां वनस्पतिषु भावात्, पुरस्कृता अनन्ताः,अनन्तानां वनस्पतिकायादुद्धृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानांभाविसिद्धिगमनभावात् ,'मणुस्साणं भंते।' इत्यादि,अत्रापि प्रश्नसूत्रं प्रतीतं,भगवानाह-गौतम! स्यादिति निपातोऽनेकान्तद्योती, ततोऽयमर्थः-कदाचित् सङ्ख्येयाः कदाचिदसङ्ख्येयाः, कथमिति चेत्, उच्यते, इह सम्मूछिमगर्भव्युत्क्रान्तसमुदायचिन्तायां उत्कृष्टपदे मनुष्या अङ्गलमात्रक्षेत्रे यावान् प्रदेशराशिस्तस्य यत्प्रथमं वर्गमूलं तत् तृतीयवर्गमूलेन गुणितं सत् यावत्प्रमाणं भवति एतावत्प्रदेशप्रमाणानि खण्डानि धनीकृतस्य लोकस्य एकप्रादेशिक्यां श्रेणी यावन्ति भवन्ति ॥५६६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy