________________
प्रज्ञापनाया: मतय. वृत्ती.
३६ समुद्घातपदं सू. ३३२
॥५६३॥
तस्य पुरतो वेदनासमुद्घात एकोऽपि नास्ति, यस्तु विवक्षितप्रश्नसमयानन्तरमायुःशेषे कियत्कालं नरकमवे स्थित्वा तदनन्तरं मनुष्यभवमागत्य सेत्स्यति तस्य एकादिसम्भवः, सङ्ख्यातकालसंसारावस्थायिनः सङ्ख्याता असङ्ख्यातकालसंसारावस्थायिनोऽसङ्ख्याताः अनन्तकालसंसारावस्थायिनोऽनन्ताः, 'एवं'मित्यादि, एवं नैरयिकोक्तप्रकारेणासुरकुमारस्यापि यावत् स्तनितकुमारस्य वाच्यं, ततश्चतुर्विशतिदण्डकक्रमेण निरन्तरं तावद्वाच्यं यावद्वैमानिकस्य, किमुक्तं भवति?-सर्वेष्वपि असुरकुमारादिषु स्थानेषु अतीता वेदनासमुद्घाता अनन्ता वाच्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्येया असङ्ख्यया अनन्ता वा इति वाच्याः, भावनापि पूर्वोक्तानुसारेण खयं परिभावनीया, एवं चतुविशतिदण्डकक्रमेण कषायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातस्तैजससमुद्घातश्च प्रत्येकं, तत एव पञ्च चतुर्विशतिदण्डकसूत्राणि भवन्ति, तथा चाह-'एवं जाव तेयगसमुग्धाए'इत्यादि, एवं वेदनासमुद्घातप्रकारेण शेषसमुद्घातेष्वपि प्रत्येकं तावद्वक्तव्यं यावत्तैजससमुद्घातः, शेषं सुगम, 'एगमेगस्स ण'मित्यादि, एकैकस्य भदन्त ! नैरयिकस्य पाश्चात्यं सकलमतीतं कालमपेक्ष्य कियन्त आहारकसमुद्घाता अतीताः?, भगवानाह-गौतम! कस्यापि 'अत्यि'त्ति अस्तीति निपातः सर्वलिङ्गवचनो, यदाह शाकटायनन्यासकृत्-"मस्तीति निपातः सर्वलिङ्गवचनेवि"ति, ततोऽयमर्थः-कस्यापि अतीता माहारकसमुद्घाताः सन्ति कस्यापि न सन्ति, येन पूर्व मानुष्यं प्राप्य तथाविधसामग्र्यमावतचतुर्दश
॥५६३॥
Jan Education MS
For Personal & Private Use Only
Nomainelibrary.org