________________
cिeaekeeeeeeeeeeeesea
अस्थि कस्सइ नत्थि, जस्सत्थि एक्को, एवं जाव वेमाणियस्स, नवरं मणूसस्स अतीता कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि एको, एवं पुरेक्खडावि (सूत्रं ३३२) 'एगमेगस्स णं भंते !' इत्यादि, एकैकस्य सूत्रे मकारोऽलाक्षणिकः, भदन्त ! नैरयिकस्य सकलमतीतं कालमधिकृत्य 'केवइय'त्ति कियन्तो वेदनासमुद्घाता अतीता-अतिक्रान्ताः, भगवानाह-गौतम! अनन्ताः, नारकादिस्थानानामनन्तशः प्राप्तत्वादेकैकस्मिंश्च नारकादिस्थानप्राप्तिकाले प्रायोऽनेकशो वेदनासमुद्घातानां भावात्, एतच्च बाहुल्यापेक्षयोच्यते, बहवो हि जीवा अनन्तकालमसंव्यवहारराशेरुद्वृत्ता वर्तन्ते, ततस्तदपेक्षया एकैकस्य नैरयिकस्थानन्ता अतीता वेदनासमुद्घाता उपपद्यन्ते, ये तु स्तोककालमसंव्यवहारराशेरुद्वृत्तास्तेषां यथासम्भवं सङ्ख्येया असङ्ख्येया वा प्रतिपत्तव्याः, केवलं ते कतिपये इति न विवक्षिताः, 'केवइया पुरेक्खड'त्ति इदं सूत्रं पाठसूचामात्रं, सूत्रपाठस्त्येवम्-'एगमेगस्स णं भंते ! नेरइयस्स केवइया वेयणासमुग्घाया पुरेक्खडा'? इति, सुगम, नवरं पुरे| अग्रे कृताः-तत्परिणामप्राप्तियोग्यतया व्यवस्थापिताः, सामर्थ्यात् तत्कर्तृजीवेनेति गम्यते, पुरस्कृता-अनागतकालभाविन इति तात्पर्यार्थः, अत्र भगवानाह-कस्यापि सन्ति कस्यापि न सन्ति, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा, उत्कर्षतः सङ्ख्येया वा असङ्ख्येया वा अनन्ता वा, इयमत्र भावना-यो नाम विवक्षितप्रश्नसमयानन्तरं वेदनासमुद्घातमन्तरेणैव नरकादुद्वृत्त्यानन्तरमनुष्यभवे वेदनासमुद्घातमप्राप्त एव सेत्स्यति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org