SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ पूर्वाणि नाधीतानि, चतुर्दशपूर्वाधिगमे वा आहारकलब्ध्यभावतः तथाविधप्रयोजनामावतो वा आहारकशरीरं न । कृतं तस्य न सन्तीति, यस्यापि सन्ति तस्यापि जघन्यतः एको वा द्वौ वा उत्कर्षतस्तु त्रयो, न तु चत्वारः, चतु:कृत्वः कृताहारकशरीरस्य नरकगमनाभावात्, आह च मूलटीकाकारः-"आहारसमुग्घाया उक्कोसेणं तिनि, तदुवरि नियमा नरगं न गच्छइ जस्स चत्तारि भवन्ति" इति, पुरस्कृता अपि कस्यापि सन्ति कस्यापि न सन्ति, तत्र यो मानुष्यं प्राप्य तथाविधसामग्र्यभावतश्चतुर्दशपूर्वाधिगममाहारकसमुद्घातं चान्तरेण सेत्स्यति तस्य न सन्ति, शेषस्य तु यथासम्भवं जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतश्चत्वारः, तत ऊर्ध्वमवश्यं गत्यन्तरासंक्रमेणाहारकसमुद्घातमन्तरेण च सिद्धिगमनभावात्, 'एव'मित्यादि, एवं नैरयिकोक्तेन प्रकारेण चतुर्विशतिदण्डकक्रमेण निरन्तरं तावद् वाच्यं यावद्वैमानिकस्य सूत्रं, नवरं मनुष्यस्यातीता अपि पुरस्कृता अपि यथा नैरयिकस्य पुरस्कृतास्तथा वाच्याः, अतीता अपि चत्वारः पुरस्कृता अपि चत्वार उत्कर्षतो वाच्या इत्यर्थः, सूत्रपाठश्चैवम्-'एगमेगस्स णं मणूसस्स भंते ! केवइया आहारसमुग्घाया अतीता?, गोयमा! कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि जहनेणं । |एको वा दो वा तिन्नि वा उकोसेणं चचारि, केवइया पुरेक्खडा, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहन्नेणं एको वा दो या तिन्नि वा उक्कोसेणं चचारि' अत्र भावना-इह यश्चतुर्थवेलमाहारकशरीरं करोति स नियमात् तद्भव एव मुक्तिमासादयति, न गत्यन्तरं, कथमेतदवसीयते इति चेत्, उच्यते, सूत्रपौर्वापर्यपर्या Jain Education For Personal & Private Use Only Ramjainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy