SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ वेउब्धियस० तेयास०, नवरं मणूसाणं सत्तविहे समुग्घाए पं०, तं०-वेदणास० कसायस० मारणंतियस० वेउ० तेया० आहार० केवलिसमुग्धाते (सूत्रं ३३१) 'कइ 'मित्यादि, कति-किंपरिमाणा णमिति वाक्यलकारे 'भदन्ते'ति भगवतो वर्द्धमानखामिन भामत्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात् , यदिवा भवान्तेति द्रष्टव्यं, सकलसंसारपर्यन्तवर्तित्वात्, अथवा भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकारभयविनाशकत्वात् , समुद्घाताः-उक्तशब्दार्थाः प्रज्ञप्ताः, भगवानाह'गोयमे त्यादि, गौतम! सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, वेदनायाः समुदघातो वेदनासमुद्घातः, एवं यावदाहारकसमुद्घात इति, 'केवलिसमुद्घात' इति केवलिनः समुद्घातः केवलिसमुद्घातः सम्प्रति कः समुद्घातः कियन्तं कालं यावद्भवतीत्येतन्निरूपणार्थमाह-वेयणे'त्यादि, सुगम, नवरं 'जावे'त्यादि, एवमुक्तप्रकारेणाभिलापेनान्तर्मुहूर्तप्रमाणतया च समुद्घा ताः क्रमेण तावद्वाच्याः यावदाहारकसमुद्घातः, एते षडप्याद्या आन्तर्मुहूर्तिकाः, केवलिसमुद्घातस्त्वष्टसामयिका, स चानन्तरमेव भावितः, एतानेव समुद्घातान् चतुर्विंशतिदण्डकक्रमेण चिचिन्तयिषुराह-'नेरइयाणमित्यादि, नैरयिकाणामाद्याश्चत्वारः, तेषां तेजोलब्ध्याहारकलब्धिकेवलित्वाभावतः शेषसमुपातत्रयासम्भवात्, असुरकुमारादीनां दशानामपि भवनपतीनां तेजोलेश्याल|धिभावात् आधाः पञ्च समुद्घाताः, पृथिवीकायिकाप्कायिकतजस्कायिकवनस्पतिकायिकद्वित्रिचतुरिन्द्रिया Jain Educational For Personal & Private Use Only shelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy