________________
प्रज्ञापना-विति, शेषद्वारचिन्तायां तु यथासम्भवं वाच्याः, ते चाने खयमेव सूत्रकृताऽभिधास्यन्ते इत्येष सङ्ग्रहणिगाथासङ्के-11 ३६ समुयाः मल- पार्थः । अथ समुद्घात इति कः शब्दार्थः १, उच्यते, समित्येकीभावे उत्प्राबल्ये, एकीभावेन प्राबल्येन घातः समु- द्घातपदं यवृत्ती. द्घातः, केन सह एकीभावगमनमिति चेत्, उच्यते, अर्थाद्वेदनादिभिः, तथाहि-यदाऽऽत्मा वेदनादिसमुद्घात सू.३३० ॥५५॥
गतो भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवति, नान्यज्ञानपरिणतः, प्राबल्येन कथं घात इति चेत्, उच्यते, इह वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदयावलिकायां प्रक्षिप्यानुभूय च निर्जरयति, आत्मप्रदेशैस्सह सङ्क्लिष्टान् सातयतीति भावः, 'पुवकयकम्मसाडणं तुर निजरा' [ पूर्वकृतकर्मशाटनं तु निर्जरा ] इति वचनात् , तथाहि-वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातः अन्तर्मुहर्तशेषायुःकर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाता यथाक्रमं वैक्रियशरीरतैजसशरीराहारकशरीरनामकर्माश्रयाः, केवलिसमुद्रातः सदसवेद्यशुभाशुभनामोचनीचैर्गोत्रकर्माश्रयः, तत्र वेदनासमुद्घातगत आत्मा असातवेदनीयकर्मपुद्गलपरिशातं करोति, तथाहिवेदनापीडितो जीवः खप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद्वहिरपि विक्षिपति, तैश्च प्रदेशैवंदनजठरादिरन्धा- ५५९॥ णि कर्णस्कन्धाद्यपान्तरालानि चापूर्यायामतो विस्तरतश्च शरीरमात्र क्षेत्रमभिव्याप्यान्तर्मुहुर्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातावेदनीयकर्मपुद्गलपरिशातं करोति, कषायसमुद्घातसमुद्धतः कषायाख्यचारित्रमोहनीयकर्म
Jain Education
)
For Personal & Private Use Only
nelibrary.org