________________
अथ षट्त्रिंशत्तमं समुद्घाताख्यं पदं ॥ ३६ ॥
तदेवं व्याख्यातं पञ्चत्रिंशत्तमं पदं, सम्प्रति पत्रिंशत्तममारभ्यते, तस्य चायमभिसम्बन्धः - इहानन्तरपदे गतिपरिणामविशेषो वेदना प्रतिपादिता, इहापि गतिपरिणामविशेष एव समुद्घातश्चिन्त्यते, तत्र समुद्घातवक्तव्यताविषये इयमादौ सङ्ग्रहणिगाथा -
वेयणकंसायमरणे वेडवियतेयए य आहारे । केवलिए चैव भवे जीवमणुस्साण सत्तेव ॥ १ ॥
'वेयणे' त्यादि, इह समुद्घाताः सप्त भवन्ति, तद्यथा - ' वेयणकसायमरणे' इति, वेदनं कषायाश्च मरणं च वेदनकषायमरणं समाहारो द्वन्द्वस्तस्मिन् विषये त्रयः समुद्घाता भवन्ति, तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मरणसमुद्घातश्च, 'वेउच्चिय'त्ति वैक्रिय विषयश्चतुर्थः समुद्घातः, तैजसः पञ्चमः समुद्घातः, षष्ठ आहार इतिआहारकशरीर विषयः, सप्तमः केवलिकः - केवलिषु भवति, 'जीवमणुस्साण सत्तेवत्ति सामान्यतो जीवचिन्तायां मनुष्यद्वारचिन्तायां सप्तैव - सप्तपरिमाणाः समुद्घाता वक्तव्याः, न न्यूनाः, सप्तानामपि तत्र सम्भवात्, 'सत्तेव' त्ति एवकारोऽत्र परिमाणे, वर्त्तते च परिमाणे एवशब्दः, यदाह शाकटायनन्यासकृत् - 'एवोऽवधारणपृथक्त्वपरिमाणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org