SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पडलपरिशातं विधत्ते, तथाहि-कषायोदयसमाकुलोजीवःप्रदेशान् बहिर्विक्षिपति, तैः प्रदेशैर्वदनोदरादिरन्त्राणि कर्णस्कन्धाधन्तरालानि चापूर्यायामतो विस्तरतश्च देहमानं क्षेत्रमभिव्याप्य वर्तते, तथाभूतश्च प्रभूतान् कषायकर्मपुद्गलान् । परिशातयति, एवं मरणसमुद्घातगत आयुःकर्मपुद्गलान् परिशातयति, नवरं मरणसमुद्घातगतो विक्षिप्तखप्रदेशो वदनोदरादिरन्ध्राणि स्कन्धाद्यपान्तरालानि चापूर्य विष्कम्भबाहल्याभ्यां खशरीरप्रमाणमायामतः खशरीरातिरेकतो जघन्यतोऽखुलासङ्ख्येयभागं उत्कर्षतोऽसङ्ख्येयानि योजनान्येकदिशि क्षेत्रमभिव्याप्य वर्त्तत इति वक्तव्यं, वैक्रियसमुद्धातगतः पुनर्जीवः खप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमानमायामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुदलान् प्राग्वत् शातयति, तथा चोक्तम्-'उघियसमुग्घाएणं समोहणइ संमोहणित्तासंखिज्जाइंजोयणाई दंडं निसिरह, निसिरिता अहाबायरे पुग्गले परिसाडेई'इति, एवं तैजसाहारसमुद्घातावपि भावनीयो, नवरं तेजससमुद्घातस्तेजोलेश्याविनिर्गमकाले तैजसनामकर्मपुद्गलपरिशातहेतुः, आहारकसमुद्घातमतस्त्वाहारशरीरनामकर्मपुद्गलान् परिशातयतीति, केवलिसमुद्घातगतः केवली सदसवेद्यादिकर्मपुद्ग|लपरिशातं करोति, स च यथा कुरुते तथा विनेयजनानुग्रहाय भाव्यते इति, केवलिसमुद्घातोऽष्टसामयिकः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः खशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तं आत्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटं तृतीये मन्थानं चतुर्थेऽवकाशान्तराणां पूरणं पञ्चमेऽवकाशान्तराणां संहार Jalne.२४ For Personal & Private Use Only wil.sinelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy