SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया:मलय. वृत्तौ. ॥३८॥ देष न्यायतः सम्यग्मिथ्यादृष्टिरेव भवितुमर्हति कथं मिथ्यादृष्टिः ?, तदसत् , वस्तुतत्त्वापरिज्ञानात् , इह यदा १८ कायसकलं वस्तु जिनप्रणीततया सम्यक् श्रद्धते तदानीमसौ सम्यग्दृष्टियंदा त्वेकस्मिन्नपि वस्तुनि पर्याये वा मतिदौर्ब स्थितिपदं ल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्यापरिज्ञानाभावतो न सम्यश्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः तदा सम्यग्मिथ्यादृष्टिः, उक्तं च शतकबृहचूर्णी-"जहा नालिकेरीदीववासिस्स खुहाइयस्सवि एत्थ समागयस्स पुरिसस्स ओयणाइए अणेगविहे ढोइए तस्स आहारस्स उवरि न रुई न य निंदा, जेण तेण सो ओयणाइओ आहारो ण कयाइ दिट्ठो नावि सुओ, एवं सम्मामिच्छहिहिस्सवि जीवाइपयत्थाणं उवरिं न य रुई नावि निंद"त्ति, यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपद्यते तदा मिथ्यादृष्टिरेवेत्यदोषः, स च त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यः कदाचनापि सम्यक्त्वं नावाप्स्यति सोऽनाद्यपर्यव|सितः, यस्त्ववाप्स्यति सोऽनादिसपर्यवसितः, यस्तु सम्यक्त्वमासाद्य भूयोऽपि मिथ्यात्वं याति स सादिसपयेवसितः, स च जघन्येनान्तर्मुहूर्त, तदनन्तरं कस्यापि भूयः सम्यक्त्वावाप्तेः, उत्कर्षतोऽनन्तं कालं, तमेवानन्तं कालं ॥३८८॥ द्विधा प्ररूपयति-कालतः क्षेत्रतश्च, तत्र कालतोऽनन्ता उत्सपिण्यवसर्पिणीर्यावत् , क्षेत्रतोऽपार्द्धपुद्गलपरावत्त । देशोनं, अत्र क्षेत्रत इति निर्देशात् क्षेत्रपुदलपरावतः परिग्रायो, नतु द्रव्यपुद्गलपरावर्तादयः, एवं पूर्वोत्तरत्रापि च भावनीयं, 'सम्मामिच्छादिट्ठी 'मित्यादि, सम्यग्मिथ्या दृष्टिर्यस्यासौ सम्यग्मिध्यादृष्टिः स जघन्यत उत्कर्षतो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy