________________
प्रज्ञापना- या:मलय. वृत्तौ.
॥५५६॥
अतिको देवो दानवो वा वचनामृतैः सिञ्चति तदा मनसि सातं शरीरे तु क्षेत्रानुभावतोऽसातं यदिवा मनस्येव तद्द-18|३५वेदनाशेनतः तद्वचनश्रवणतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति तदा सातासातवेदनामनुभवन्ति, अत्रापि तावन्तं पदं सू. विवक्षितकालमेकं विवक्षित्वा सातासातानुभवो युगपत् प्रतिपादितः, परमार्थतस्तु क्रमेणैव च वेदितव्य इति, 'एव'-INI ३२९ मित्यादि, एवं-नैरयिकोक्तप्रकारेण सर्वे जीवास्तावद्वक्तव्या यावद्वैमानिकाः, तत्र पृथिव्यादयो यावन्नाद्याप्युपद्रवः सन्निपतति तावत् सातवेदनां वेदयन्ते उपद्रवसम्पाते त्वसातवेदनामवयवभेदेनोपद्रवसम्पातभावे सातासातवेदनां, व्यन्तरज्योतिष्कवैमानिका देवाः सुखमनुभवन्तः सातवेदनां च्यवनादिकाले त्वसातवेदनां परविभूतिदर्शनतो मात्सयाँधनुभवे खवल्लभदेवीपरिष्वङ्गाउनुभवे च युगपजायमाने सातासातवेदनां वेदयन्ते इति । भूयः प्रकारान्तरेण एतामेव प्रतिपादयन् प्रश्ननिर्वचनसूत्रे आह–'कइविहा णं भंते !' इत्यादि, या वेदना नैकान्तेन दुःखा भणितुं | शक्यते सुखस्यापि भावात् नापि सुखा दुःखस्यापि भावात् सा अदुःखसुखा सुखदुःखात्मिका इत्यथैः, अथ सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः १, उच्यते, ये क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः सातासात ते सातासाते उच्यते, ये पुनः परोदीर्यमाणवेदनारूपे सातासाते ते सुखदुःखे इति, एतामेव चतुर्विशतिदण्डकक्रमेण
| ॥५५६॥ चिन्तयति-'नेरइया ण'मित्यादि ॥ वेदनामेव प्रकारान्तरेण चिन्तयन्नाह
कत्तिविहा णं भंते ! वेदणा पं०१, गो ! दुविहा वेयणा पं०, तं०-अब्भोवगमिया य उवकमिया य, नेरइया णं भंते !
dan Education International
For Personal & Private Use Only
wwwane brary.org