________________
किं दवतो वेयणं वेदंति' इत्यादि, सकलमपि सुगमं। प्रकारान्तरेण वेदनांपि प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे 91 आह-'कइविहा णं भंते !' इत्यादि, शरीरे भवा शारीरी मनसि भवा मानसी तदुभयभवा शारीरमानसी, शारीरी च मानसी च शारीरमानसी, 'पुंवत्कर्मधारय' इति पुंवद्भावः, एतामेव चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेरइया णं भंते ! किं सारीरं वेयणं वेदेति' इत्यादि, तत्र यदा परस्परोदीरणतः परमाधार्मिकोदीरणतो वा क्षेत्रानुभावतो वा शरीरे पीडामनुभवन्ति तदा शारीरी वेदनां वेदयन्ते, यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्यं वा भवमात्मीयं दुष्कर्मकारिणमनुसृत्य पश्चात्तापमतीव कुर्वते तदा मानसीं वेदनां वेदयन्ते, यदा तु शरीरे मनसि | चोक्तप्रकारेण युगपत् पीडां अनुभवन्ति तदा शारीरमानसी, इहापि वेदनानुभावः क्रमेणैव केवलं विवक्षिततावत्कालमध्ये शरीरे च पीडामनुभवन्ति मनसि च एतावन्तं कालं एक विवक्षित्वा युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः, 'एवं जाव वेमाणिया' इत्यादि, एवं-नैरयिकोक्तेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियविकलेन्द्रियाः शारीरी वेदनां वेदयन्ते न मानसीं, तेषां मनसोऽभावात् , ततस्तदनुसारेण तद्विषयं सूत्रं वक्तव्यं । प्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे आह-'कइविहा णं भंते !' इत्यादि, तत्र साता-सुखरूपा असाता-दुःखरूपा सातासाता-सुखदुःखात्मिका, एतामेव नरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तयति'नेरइया ण'मित्यादि, तत्र तीर्थकरजन्मादिकाले सातवेदनां वेदयन्ते, शेषकालमसातवेदनां वेदयन्ते, यदा तु पूर्वस
02020000000002929
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org