SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मल य० वृत्ती. ॥५५५॥ ननु उपयोगः क्रमेण जीवानां भवति, तथाखाभाष्यात् कथमत्र शीतोष्णवेदनानुभवो युगपत् प्रख्याप्यते इति ?, उच्यते, इहापि वेदनानुभवः क्रमेणैव तथाजीवखा भान्यात्, केवलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुपजायत इति सूक्ष्ममाशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव प्रतिपादितमिति न कश्चिदोषः, सामान्यतः सूत्रस्य प्रवृत्तत्वात्, 'एवं जाव वेमाणिय'त्ति एवं - असुरोक्तेन प्रकारेण यावद् वैमानिकास्तावत् सूत्रं वक्तव्यं तचैवम्- 'पुढविकाइया णं भंते! किं सीयं वेयणं वेयंति उसिणं वे० वे० सीओसिणं वेयणं वेयंति १, गो० ! सीयंपि वे० वे० उसिपि वे ० वे० सीतोसिणपि वे० वेयंति' इत्यादि, तत्र पृथिवीकायिकादयो मनुष्यपर्यवसानाः शीतवेदनां हिमादिप्रपातेऽभिवेदयमाना वेदितव्याः उष्णवेदनामध्यादिसम्पर्के शीतोष्णवेदनामवयवशः शीतोष्णपुद्गलसम्बन्धे इति, व्यन्तरज्योतिष्कवैमानिकास्त्वसुरकुमारवत् भावनीयाः । उक्ता शीतादिभेदात् त्रिविधा वेदना, सम्प्रति तामेव वेदनां प्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वचनसूत्रे आह— 'कइविहा णं भंते' इत्यादि, इह | वेदना द्रव्यक्षेत्रकालभावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात्, तत्र यदाऽ - स्यैव वेदना पुद्गलद्रव्य सम्बन्धमधिकृत्य चिन्त्यते तदा द्रव्यवेदना, द्रव्यतो वेदना द्रव्यवेदना, नारकाद्युपपातक्षेत्रम|धिकृत्य चिन्त्यमाना क्षेत्रवेदना, नारकादिभवकालसम्बन्धेन विवक्ष्यमाणा कालवेदना, वेदनीयकर्मोदयादुपजायमा| नत्वेन परिभाव्यमाना भाववेदना, एतामेव चतुर्विधां वेदनां चतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइया णं भंते ! Jain Education International For Personal & Private Use Only ३५ वेदना पदं सू. ३२८ ॥५५५॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy