________________
कावासेषु शीतवेदनासम्भवात् , धूमप्रभायामपि पृथिव्यां केचित् शीतवेदनाकाः केचिदुष्णवेदनाकाः, नवरं शीतयेद-3 नाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शीतवेदनासम्भवात्, स्तोका उष्णवेदनाः, कतिपयेष्वेव नरकावासेपूष्णवेदनाभावात् , अधस्तन्योस्तु द्वयोः पृथिव्योः शीतवेदनामेव नैरयिका अनुभवन्ति. तत्रत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात् , नरकावासानां त्वनुपमहिमानुषक्तत्वात् , एतावत्सूत्रं चिरन्तनेष्वनिप्रतिपत्त्या श्रयते, केचिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठन्ति, ततस्तन्मतं आह-'केह एक्केकीए पुढवीए यणं भणंति' इति केचिदाचार्या एककस्सां पृथिव्यां प्रश्भनिर्वचनरूपतया वेदना भणंति, यथा भणन्ति तथोपदर्शयन्ति–'रयणप्पभे'त्यादि सुगम, तदेवं नैरयिकाणां चिन्तिता शीतादिवेदना, सम्प्रत्यसुरकुमाराणां तां चिचिन्तयिषुरिदमाह-'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदनाविषये पृच्छासूत्रं च वक्तव्यं, 'असुरकुमाराणं भंते ! किं सीयं वेदणं वेयंति उसिणं वेयणं वेयंति सीओसिणं वेयणं वेयंति, इति भगवानाह-'गोयमे'त्यादि, शीतामपि वेदनां वेदयन्ते, यदा शीतलजलसम्पूर्णहृदादिषु निमज्जनादिकं विदधति, उष्णामपि वेदनां वेदयंते यदा कोऽपि महर्द्धिकस्तजातीयोऽन्यजातीयो वा कोपवशात् विरूपतया दृष्ट्याऽवलोकमानः शरीरे सन्तापमुत्पादयति, यथा प्रथमोत्पन्नः ईशानेन्द्रो बलि| चञ्चाराजधानीवास्तव्यानामसुरकुमाराणामुत्पादितवान् , अन्यथा वा तथाविधोष्णपुद्गलसम्पृक्तावुष्णवेदनामनुभवन्तो वेदितव्याः, यदा त्ववयवभेदेन शीतपुद्गलसम्पर्क उष्णपुद्गलसम्पर्कचोपजायते तदा शीतोष्णां वेदनां वेदयन्ते,
920202090007
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org