________________
प्रज्ञापनायाः मलय. वृत्ती.
५५
| ३४ प्रवी-- चारपदं सू. ३२३-३२७
तेसिं देवाणं अंतियं पाउम्भवंति,तए णं ते देवा अच्छराहिं सद्धिं फासपरियारं करेंति" स्पर्शपरिचारणं वदनचुम्बनस्तनमईनबाहुउपगृहनजघनोरुप्रभृतिगात्रसंस्पर्शरूपं, 'से जहानामए सीया पुग्गला सीयं पप्प सीयं चेव अतिवइत्ताणं चिट्ठति उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अइवइत्ताणं चिटुंति एवमेव तेहिं देवेहिं ताहिं अच्छराहिं सद्धिं फासपरियारणे कए समाणे इच्छामणे खिप्पामेव अवेइ,' अस्य सपातनिका व्याख्या प्राग्वत् , 'अत्थि णं भंते ! तेसिं देवाणं सुक्कपोग्गला ?, हंता ! अस्थि, ते पं भंते ! तासिं अच्छराणं कीसत्ताए भुजो २ परिणमंति?, गोयमा ! सोतिदियत्ताए जाव फासिंदियत्ताए इतृत्ताए कंतत्ताए जाव भुजो २ परिणमंति' अस्यापि सपातनिका व्याख्या प्राग्वत्,नवरमस्मिन् स्पर्शप्रवीचारे शुक्रपदलसङ्कमो दिव्यप्रभावादवसेयः,एवं रूपपरिचारादावपि भावनीयं, तदेवमुक्ताः स्पर्शपरिचारकाः, सम्प्रति रूपपरिचारणां विभावयिषुराह-तत्थ ण'मित्यादि,सुगम तावत् यावत् विकुर्वित्वा 'जेणामेव'त्ति यत्रैव देवलोके विमाने प्रदेशे च ते देवाः सन्ति तत्रैव स्थाने ता अप्सरस उपागच्छन्ति, उपागम्य च तेषां देवानां 'अदूरसामंते' इति अदूरसमीपे स्थित्वा तानि पूर्व विकुर्वितानि उदाराणि यावदुत्तरवैक्रियाणि रूपाणि उपदर्शयन्यस्तिष्ठन्ति, ततस्ते देवास्ताभिरप्सरोभिः सार्द्ध रूपपरिचारणां-परस्परं सविलासदृष्टिविक्षेपाङ्गप्रत्यङ्गनिरीक्षणनिजनिजानुरागप्रदर्शनपटिष्टचेष्टाप्रकटनादिरूपां कुर्वन्ति, 'सेसं तं चेव'त्ति शेषं से जहा नामए' इत्यादि तदेव यावत् 'भुजो २ परिणमन्तीति वाक्यम, तदेवं भाविता रूपपरिचारणा, सम्प्रति शब्दपरिचारणां भावयितुकाम
॥५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org