________________
पातकालमात्रभावि सम्भाव्यते तत आह-'मनआपतया' मन आमुवन्ति-मनसि सदा रमन्ते इति मनापास्तद्भावस्तत्ता तया, मनसा सदा स्पृहणीयतयेति भावः, कस्मादिति चेत्, अत आह-'सुभगतया' 'निमित्तकारणहेतुषु । सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् अत्र हेतौ तृतीया, ततोऽयमर्थः-यतः सुभगतया-सर्वजनप्रियतया परिणमन्ति तत उच्यते इष्टतया कान्ततयेत्यादि, सुभगतया परिणमनमपि कथमिति चेत्, अत आह-'सोहग्गरूव-| जोवणगुणलावन्नत्ताए' इति, अत्र प्राकृततया गुणशब्दस्य लावण्यशब्दात् पूर्व निपातः परमार्थतस्तु परतो द्रष्टव्यः, ततोऽयमर्थः-सौभाग्याय-सौभाग्यहेतवे रूपयौवनलावण्यरूपा गुणा यस्य तत्सौभाग्यरूपयौवनलावण्यगुणं तद्भाव-11 स्तत्ता तया, तत्र रूपं-सौन्दर्यवती आकृतियौवनं-परमस्तरुणिमा लावण्यं-अतिशायी मनोभवविकारहेतुः परिणतिविशेषः, यतः सौभाग्यहेतुरूपादिगुणनिबन्धनतया परिणमन्ति ततः सुभगतया परिणमंतीत्युच्यते, एवं ते शुक्रपुद्गलास्तासामप्सरसां भूयो भूयः परिणमन्ति । तदेवं कायपरिचार उक्तः, सम्प्रति स्पर्शपरिचारं विभावयिषुराह-'तत्थ ण'मित्यादि, तत्र-तेषु परिचारकादिषु मध्ये णमिति पूर्ववत् ये ते स्पर्शपरिचारका देवास्तेषां णमिति पूर्ववत् एवमिच्छामनः-स्पर्शपरिचारविषयेच्छाप्रधान मनः समुत्पद्यते, 'एवं जहेवे'त्यादि, एवं-उक्तेन प्रकारेण यथैवानन्तरं प्राक् कायपरिचारका उक्ताः तथैव स्पर्शपरिचारकेष्वपि निरवशेष भणितव्यं, तच्चैवम्-'इच्छामो णं अच्छराहिं सद्धिं फासपरियारं करेत्तए, तए णं तेहिं देवहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ उरालाई जाव विउवित्ता
dain Education International
For Personal & Private Use Only
www.janelibrary.org