SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती. ३४ प्रवीचारपदंसू. ३२३-३२७ ॥५५॥ सति इच्छामनः-कामविषयेच्छाप्रधानं मनः क्षिप्रमेवातितृप्तिभावात् शीतीभवति, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः संस्पर्शे शीतत्वं विशेषतः आसादयन्तस्तस्य 'सुखित्वायोपकल्पन्ते उष्णपुद्गला वा उष्णयोनिकस्य प्राणिनः संस्पर्श उष्णत्वमतिप्रभूतमासादयन्तः सुखाय घटन्ते तथा देवीशरीरपुद्गला देवशरीरमवाप्य देवशरीरपुद्गला अपि देवीशरीरमवाप्य परस्परं तद्गुणतां भजमानाः परस्परं सुखित्वायोपकल्पन्ते ततस्तृप्तिरुपजायते तृप्तिभावाचाभिलाषनिवृत्तिर्भवतीति । इह मनुष्यस्त्रीणां मनुष्यपुरुषोपभोगे शुक्रपुद्गलसमतः सुखमुपजायमानं लब्धं तत्किं देवीनामप्युपभोग्यदेवसत्कशुक्रपुद्गलसङ्क्रमतः सुखमुपजायते आहोश्चिदन्यथेति संशयानो देवानां शुक्रपुद्गलास्तित्वं पृच्छति-'अत्थि ण'मित्यादि, अस्तीतिनिपातोऽत्र बह्वर्थे, णमिति पूर्ववत्, भदन्त ! तेषां देवानां शुक्रपुदलाः यत्सम्पर्कतो देवीनां सुखमुपजायते ?, 'हंता! अत्थि' भगवानाह-गौतम! सन्ति, केवलं ते वैक्रियशरीरान्त|गता इति न गर्भाधानहेतवः, 'ते णं भंते !' इत्यादि, ते शुक्रपुद्गलाः, णमिति पूर्ववत् भदन्त ! तासामप्सरसा कीहक्खरूपतया 'भूयो २' यदा २ क्षरन्ति तदा २ इत्यर्थः परिणमन्ति !, भगवानाह-गोयमे'त्यादि, श्रोत्रेन्द्रियरूपतया यावत्स्पर्शनेन्द्रियतया, तेऽपि कदाचिदनिष्टतया परिणमन्तः सम्भाव्यरन् तत आह–इष्टतया, इष्टमपि किञ्चित्खरूपतोऽकान्तं भवति, यथा शूकरादीनामिष्टमपि विष्ठादि, तत आह-'कान्ततया' कमनीयतया, कान्तमपि किञ्चिन्मनःस्पृहणीयं न भवति तत आह-'मनोज्ञतया' अतिस्पृहणीयतया, तदप्यतिस्पृहणीयत्वं कदाचिदा POPO20099999900 ॥५५॥ Jain Education Inter n al For Personal & Private Use Only www.janelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy